स्विष्टकृतमेकया हुतशेषचर्वाहुत्या यक्ष्ये । एते देवते सद्यो यक्ष्य इत्युक्त्वा व्याहृतिभिरग्नौ समिधोऽभ्याधायाग्निं परिस्तीर्योत्तरेणाग्निं दर्भानास्तीर्य तेषु शूर्पं कृष्णाजिनमुलूखलं मुसलं चरुस्थालीं मेक्षणं तण्डुलप्रस्कन्दनार्थं पात्रं दर्वीमाज्यस्थालीं प्रोक्षणीपात्रं हविरासादनार्थं दर्भानुपवेषं संमार्गदर्भानवज्वलनदर्भानाज्यं समिधं चाऽऽसादयेत्[१] ।
व्रीहीणां तत्प्रतिनिधित्वेन विहितानां सतुषाणामोषधीनां च सर्वथाऽभावेन सिद्धतण्डुलग्रह[२]णे पत्नी, अवहननकाले तण्डुलान्स्पृष्ट्वा कृष्णाजिनास्तरणादि त्रिष्फलीकरणान्तं कर्म मनसा क्रमेण विभावयेदङ्गत्वनिर्वाहाय । अथवा सर्वा बाह्याश्चेष्टा अपि कर्तव्याः । पूर्वकल्पे कृष्णाजिनालूखलमुसलानां नाऽऽसादनं, द्वितीयकल्पे त्वस्त्येव कृष्णाजिनाद्यासादनम् ।
ततः पवित्रे कृत्वाऽपरेणाग्निं शूर्पं निधाय तस्मिन्पवित्रे निधाय तृष्णीं चतुरो मुष्टीन्निरू(रु)प्यैकब्राह्मणभोजनपर्याप्तान्व्रीहीनन्वोप्योत्तरेणाग्निं नि[३]रुप्तव्रीहिमच्छूर्पं निधाय प्रोक्षणीः संस्कृत्य शूर्पस्थान्व्रीहीन्प्रोक्ष्य पात्राण्युत्तानानि कृत्वा प्रोक्षति ।
([४]ऋषभं च मूल्यदाने मूल्यम् । ) ततः प[५]त्न्यग्नेरुत्तरतः कृष्णाजिनं बहि [६]र्विशसनं त्रिरवधूय प्रत्यग्ग्रीवमुपरिष्टाल्लोम तदास्तीर्य तस्य भस[७]त्प्रदेशमुपसमस्य तत्रोलूखलं संस्थाप्य तस्मिन्व्रीहीनोप्याऽऽसीनेन मुसलेनावहत्योलूखलस्य पुरस्ताच्छूर्पं निधायोलूखलस्थांस्तण्डुलाञ्शूर्पे निक्षिप्य कृष्णाजिनस्योत्तरतस्त्रिर्निष्पूय तुषान्प्रध्वंसयित्वा(स्य) तांस्तुपान्दक्षिणहस्तेन कृष्णाजिनस्याधस्तादुपवपत्यनिरीक्षन्(माणा)।
ततो दक्षिणहस्तेनैव निक्षिप्तांस्तुपान्निष्पीड्याप उपस्पृश्य [८]विविच्य प्रस्कन्दनार्थ आसादिते पात्रे प्रस्कन्दयित्वा(न्द्य) तानादायोलृखले प्रक्षिप्य त्रिष्फलीकृत्य त्रिष्फलीकरणानि कृष्णाजिनस्योत्तरतो निक्षिप्य तण्डुलान्प्रक्षाल्याग्नेः पश्चान्निवपति ।
- ↑ अत्र क. पुस्तके टिप्पण्यामग्रे लिखितो ग्रन्थो वर्तते--"मेक्षणादिस्थालीपाकविशिष्टपात्राणां द्वंद्वासादनादिविशेषविचारस्त्वायुर्वर्धापनप्रयोगे द्रष्टव्यः" इति ।
- ↑ ख. च. हणे, अ ।
- ↑ ड. निरू(रु)प्य व्री ।
- ↑ धनश्चिह्नान्तर्गतमधिकं क. ख. पुस्तकस्थम् ।
- ↑ ड. च. वत्न्याऽग्ने ।
- ↑ क पुस्तकटिप्पण्याम्-- "अलोमप्रदेशः" इति ।
- ↑ क. पुस्तकटिप्पण्याम्--"भसत्प्रदेशं गुदस्थानं प्रत्यक्संस्थमधस्तान्मांसभागेन सह मांसभागस्य यथा सधानं भवति तथा द्विगुणं कुर्यात् ।" इति ।
- ↑ क. पुस्तकटिप्पण्याम्-- "शोधयित्वा" इति ।