पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५८४

पुटमेतत् सुपुष्टितम्
५७६
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( गृहप्रवेशस्थालीपाकः )
 

 ततो वरः प्रक्षालितांस्तण्डुलांश्चरुस्थाल्यामोप्य मेक्षणेनाऽऽलोड्याग्नौ श्रपयित्वा दर्वीं मेक्षणं च संमृज्याऽऽज्यविलापनादिपवित्राभ्याधानान्तं कुर्यात् ।

 तत्राऽऽज्येन सह चरोरपि पर्यग्निकरणं, चरुस्थाल्यां तण्डुलनिक्षेपात्पूर्वमेव वा दर्वीसंमार्गादिपवित्राभ्याधानान्तम् । अग्नेः पश्चाद्दर्भास्तरणपक्षे तदन्तं कृत्वा दर्भेष्वाज्यं निदध्यात् ।

 यजिधातोः प्रयोगो यक्ष्य इत्येवंरूपा[१]गूरणमात्रप्राप्त्यर्थं इत्येतस्मिन्कल्पे होमब्राह्मणपरिवेषणपर्याप्तान्व्रीहीन्गृहीत्वा पत्न्याऽवघातेन निष्पादितान्व्रीहितण्डुलान्सोदकायां स्थाल्यां निक्षिप्याग्नौ श्रपयति । नात्र निर्वापप्रोक्षणकृष्णाजिनावधूननादिश्रौतधर्माः । कृष्णाजिनासादनं कृताकृतम्[२] । आस्तरणाभावे पात्रेष्वासादनमपि न । पर्याग्निकरणं तु कर्तव्यमेव । तत आसादितान्दर्भानग्नेः पश्चादास्तीर्य तत्राऽऽज्यं निधाय शृतं चरुं दर्व्याऽऽज्येनाभिघार्योदगुद्वास्याग्नेः पश्चादास्तृते बर्हिष्याज्यस्योत्तरत आसाद्याग्निं परिषिच्य तूष्णीं सादितां समिधमाधाय मेक्षणेनोपहत्य प्रदीप्तेऽग्नौ जुहोति । 'ॐ अग्नये स्वाहा' इति भार्यान्वारब्धो जुहोति । अग्नय इदं न मम ।

 पुनर्भूय उपहत्य 'ॐ अग्नये स्विष्टकृते स्वाहा' इति भार्यान्वारब्धोऽसंसक्तां पूर्वाहुत्योत्तरार्धपूर्वार्धे जुहोति । अग्नये स्विष्टकृत इदं न मम । अत्र यद्यप्यथशब्दो नास्ति तथाऽपि क्त्वाप्रत्ययाच्चरुणा स्विष्टकृद्धोमो भवति ।

 ततो मेक्षणमग्नौ प्र[३]क्षिपेत् । न वा मेक्षणप्रक्षेपः ।

 ततः परिस्तरणानि विसृज्य व्यस्तसमस्तव्याहृतिभिश्चतस्रः प्रायश्चित्ताहुतीर्हुत्वोत्तरं परिषेकं कृत्वा संस्थाजपेनाग्निमुपस्थाय तं संपूज्य ललाटे विभूतिं धृत्वा हविःशेषेण ब्राह्मणं विद्यावन्तं भोजयेत् । हविःशेषनाशे ब्राह्मणभोजनाभावः ।

 ततः कृतस्य कर्मणः साङ्गतासिद्धय आचार्यायाऽऽसादितमृषभं तन्मूल्यं वा दत्त्वाऽन्येभ्यो भूयसीं च दत्त्वा यथाविभवं ब्राह्मणान्संभोज्य कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।

 पत्न्येव कर्त्री मुख्येतिकल्पे पत्नी वराद्दानार्थमृषभं तन्मूल्यं वा संपाद्य त्वमाग्नेयस्थालीपाकेन मां याजयेति तं प्रार्थयेत् ।

 ततो वरोऽन्वाधानादिपात्रप्रोक्षणान्तं कुर्यात् ।



  1. ड. पापुर ।
  2. ख. म् । प ।
  3. ड. क्षिपेत् ।