पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५८७

पुटमेतत् सुपुष्टितम्
[विवाहः]
५७९
संस्काररत्नमाला
( गृहप्रवेशस्थालीपाकसूत्रव्याख्या )
 

 अथवा पत्न्यवहन्तीतिवचनमनन्तरोक्तेन ध्रुवाद्युपस्थानान्तेन विधिना या स्वीकृता सैव पत्नी, अन्यथा नेत्येतदर्थम् । तेनाऽऽसुरादिविवाहोढाया न यज्ञयुक्तत्वमिति सिद्धं भवति ।

 अस्ति चात्र स्मृतिः--

"क्रयक्रीता तु या नारी न सा पत्न्यभिधीयते ।
न सा दैवे न सा पित्र्ये दासीं तां कवयो विदुः" इति ।
" अधर्म्योढा तु या नारी न सा पत्न्यभिधीयते ।
दैवे पित्र्ये न सा योग्या दासीवत्कवयो विदुः" इति ।

 अधर्म्योढाऽधर्म्येण विवाहेनोढा । स्विष्टकृतं जुहोतीति परित्यज्याग्नये स्विष्टकृते जुहोतीत्येवं वचनान्नाम्नैवात्र होमो न यदस्येत्यनेन । तेन स्थालीपाकशेषेण, ब्राह्मणं विद्यावन्तं श्रुताध्ययनसंपन्नं परिवेवेष्टि भोजयतीत्यर्थः । ब्राह्मणग्रहणं क्षत्त्रियवैश्यनिवृत्त्यर्थम् । परिवेवेष्टीतिवचनबलाद्धोमब्राह्मणभोजनपर्याप्तश्चरुः कार्यः ।

 अथवैनां याजयतीति वचनमन्वारम्भसिद्ध्यर्थम् । अस्मिन्पक्षे वर एव त्यागदानकर्ता । योऽस्यापचितो भवति तस्मा ऋषभं ददातीति सूत्रमस्मिन्कल्प इत्थं व्याख्येयम् । योऽस्य स्थालीपाकयागस्य कर्तुरपचितस्तस्मा एतद्यागस्य कर्ता, ऋषभं ददाति न तु स्थालीपाकयागान्तराणां कर्ता ।

 अथवाऽस्येतिषष्ठ्या अयमिति विपरिणामः । योऽयं लोके विद्याभिजनसंपत्त्याऽपचितस्तस्मा अयमेतत्स्थालीपाककर्ता, ऋषभं ददातीति ।

 केचित्तु तेन ब्राह्मणमित्यादि योऽस्यापचितो भवति तस्मा ऋषभं ददातीत्येतदन्तं सूत्रमेकं कुर्वन्ति, तेषां मतेऽपचित एव भोजयितव्यः । तस्मा एव ऋषभो दातव्य इति ।

 यदा त्वतिसंकटे शास्त्रान्तरवशेन रात्रौ विवाहस्तत्राप्यर्धरात्रात्प्राक्चेत्तदाऽऽनडुहे चर्मण्युपविश्यानन्तरमेव दिगाद्युपस्थानादिस्थालीपाकान्तं सर्वं कर्म कार्यम् । यद्यर्धरात्रोत्तरं तदोपवेशनपूर्वकं दिगाद्युपस्थानादि कृत्वा श्वोभूत एव स्थालीपाकः कार्य इति द्रष्टव्यम् ।

 तदाहाऽऽश्वलायनः--

"अर्धरात्रे व्यतीते तु परेद्युः प्रातरेव हि ।
गृहप्रवेशनीयः स्यादिति वेदविदो विदुः" इति ।