पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५८८

पुटमेतत् सुपुष्टितम्
५८०
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( ऐरिणीपूजनं दानं च )
 

 ग्रामान्तरे वधूगृहं चेत्तदा तद्ग्रामं गत्वा तत्र स्वीयं गृहमस्ति चेत्तत्रैव मण्डपादि कार्यम् । अभावे स्वत्वसंपादनपूर्वकमन्यगृहे वा । अयं च स्थालीपाकः प्रयाणादिविधिपूर्वकः स्वगृह एव कर्तव्यः । न श्वशुरगृहान्यगृहयोः । शिष्टास्त्विदानीमेतयोरपि कुर्वन्ति ।

 गृहप्रवेशस्थालीपाकोत्तरं प्रथमदर्शपूर्णमासस्थालीपाकानुष्ठानात्प्राक्समारोपो न कार्यः ।

 चरुस्वरूपं सारसंग्रहे--

"अग्निर्गतोष्मा सुस्विन्नो ह्यदग्धोऽकठिनश्चरुः ।
न चातिशिथिलः पाच्यो न च वीतरसो भवेत्" इति ।

 अयमेव सर्व[]स्थालीपाकानां प्रकृतिः । दर्शपूर्णमासस्थालीपाकौ त्वेतद्विकृतिभूतावेव ।

इति गृहप्रवेशविधिः ।

अथैरिणीपूजनं दानं च ।

 मण्डपप्रतिष्ठादिनात्पाणिग्रहणदिनाद्वा चतुर्थे दिवसे रात्रौ तत्र भद्रादिसंभवे दिने[] वा शिष्टाचारप्राप्तं वरमात्रेऽभावे तत्समायै वा कन्यादात्रैरिण्याख्यवंशपात्रदानं कार्यम् ।

"सवस्त्रफलताम्बूलं दंपत्योर्वंशवर्धनम् ।
ऐरिण्याख्यं वंशपात्रं पक्वान्नैः परिपूरितम् ॥
करकै रुद्रसंख्यैस्तु सुवर्णेन समन्वितैः ।
एतावदैरिणीरूपं कर्तव्यं किल सूरिभिः" इति ।

 रुद्रसंख्यैरेकादशसंख्यैः ।

 एवं संपाद्य सभार्य आचम्य प्राणानायम्य विवाहसंपूर्णफलावाप्तये वरस्य तत्पितृमात्रादीनां तत्पक्षीयाणां च यथाविभवं गन्धपुष्पवस्त्रादिभिः पूजनं कुर्यात् । अत्रापि संकल्पं कुर्वन्ति । गणेशं संपूज्य वरतत्पितृमातृपक्षीयेभ्यो यथाविभवं गन्धपुष्पसमर्पणपूर्वकं पट्टपट्टीदुकूलवस्त्रादि दत्त्वा कृतकन्यादानसंपूर्णफलावाप्तिवंशाभिवृद्धिद्वारोमामहेश्वरप्रीत्यर्थमैरिणीपूजनं वरमात्रे तत्समायै वैरिण्याख्यवंशपात्रदानं च कुर्यात् ।



  1. च. र्वकामस्था ।
  2. ख. ग. ड. च. ने शि ।