तद्यथा--
"ऐ[१]रिणि त्वमुमा देवी महेशो गिरिजापतिः । |
इत्युक्त्वा तस्मिन्वंशपात्र उमामहेश्वरौ संपूज्य तद्वंशपात्रं वरमात्रे तत्समायै वा दद्यात् ।
तत्र मन्त्राः--
"वंशो वंशकरः श्रेष्ठो वंशो वंशसमुद्भवः । |
ततः सदीपं वंशपात्रं वर[२]तत्पितृमात्रादीनां शिरसि स्वयं धारयेत्, स्वस्ति नो मिमीतां स्वस्ति न इन्द्र इति द्वाभ्यां प्रतिमन्त्रम् ।
ततो दातैव कन्यां गृहीत्वा वरपित्राद्युत्सङ्गे पृथक्पृथगुपवेश्य प्रार्थयेत्--
"सप्तवर्षा त्वियं कन्या पुत्रवत्पालिता मया । |
षड्वार्षिक्यां तु षड्वत्सरा त्वियं कन्येत्यूहः । अष्टवार्षिक्यादिषु तु--अष्टवर्षा त्वियं कन्या नववर्षा त्वियं कन्या दशवर्षा त्वियं कन्येत्येवं यथायथम् ।
एवं पुत्रायेत्यत्रापि पौत्राय भ्रात्रे बान्धवाय मित्रायेति ।
वरमात्राद्युत्सङ्गे वधूमाता कन्यां तथैवोपवेश्य प्रार्थयेत् ।
ततो वरमात्रा वधूमात्रादितत्पक्षीयसुवासिनीभ्यः सकञ्चुकक्षुद्रवंशशूर्पवायनानि वध्वा दापनीयान्याचारात् । एवमन्यदपि यथाऽऽचारप्राप्तमस्ति तथा कार्यम् ।