त्प्रागेव कर्तव्यं न तूद्धननावोक्षणयोर्मध्ये । उद्धत्यावोक्ष्येतिल्यपा बोधितस्योद्धननावोक्षणयोरव्यवधानस्य बाधापत्तेः । उद्धननावोक्षणयोरव्यवधानं बाधित्वा मध्य एव कर्तव्यता तदा वक्तव्या, यदा धर्मसूत्रोक्तोल्लेखनादीनां मध्ये कर्तव्यतायां प्रमाणमुपलभ्येत । तदेवात्र नास्ति । प्रत्युतोद्धननावोक्षणयोरव्यवधानं बहुषु दृष्टमस्ति । न च शिष्टाकोपन्यायेन वेदकरणवेदिकरणयोर्मध्ये क्षुते यथोभयोरव्यवहितत्वबाधस्तथाऽनयोरपि सोऽस्त्विति वाच्यम् । तत्र क्षुतक्रमयोरेकदोषस्थितत्वेनानयोः किं बाध्यमिति विचारे प्राप्ते पदार्थधर्मरूपक्रमापेक्षया पदार्थरूपक्षुतनिमित्ताचमनस्य प्राबल्यादव्यवहितत्वबाधस्य जैमिनिना स्वीकृतत्वात्प्र[१]कृत उद्धननानन्तरमेवोल्लेखनं कर्तव्यमित्येतादृशेऽर्थे प्रमाणाभावेनैतयोरव्यवहितत्वबाधस्याकल्पनात् । न च मातृदत्तेनोद्धननोत्तरमेवोल्लेखनादीनां प्रदर्शनात्तदनन्तरमेवानुष्ठानमिति वाच्यम् । ([२]पुनरित्यादिभाष्यग्रन्थस्योल्लेखनावोक्षणोत्सेचनोदकनिधानान्यपि धर्मशास्त्रोक्तत्वात्कर्तव्यानीत्येवंरीत्या संग्रहमात्रपरताया एव ल्यब्बोधिताव्यवहितानन्तर्यबाधापत्त्या कल्पनात् । न चास्त्वव्यवहितानन्तर्यबाधः, तथा च क्रमबोधकत्वमेव पुनरित्यादिग्रन्थस्येति वाच्यम् । अव्यवहितानन्तर्यानुगुण्येनैव निर्वाहे तदितरकल्पनाया अनुचितत्वात् । उद्धत्येत्त्यस्य संस्कार्यपदार्थसाधनपदार्थप्रदर्शनार्थमात्रमुक्तिः । न त्ववोक्षणनिवृत्यर्था । अन्यथा सूत्रविरुद्धत्वेन भाष्यग्रन्थस्याप्रयोजकत्वापत्तेः । अवोक्षणानुक्तिस्तु स्पष्टत्वात् । पुनधर्मशास्त्रे दर्शनादित्यत्र पुनःशब्देन तत्सत्त्वं सूचितम् । कथम् । पुनरित्यस्याऽऽवृत्तिबोधकत्वेनोद्धननस्य धर्मसूत्रोक्तानामुल्लेखनादिनां वाऽऽवृत्त्यभावेनोद्धनन उल्लेखनादिषु वाऽन्वयासंभवेनावोक्षणस्य वारद्वयं संभवाद्धर्मसूत्रोक्तावोक्षणात्पूर्वमेव पुनःशब्दस्यान्वये सत्यर्थादुद्धननोत्तरमन्यदवोक्षणमस्तीति । एतेनोद्धननावोक्षणोत्तरभावित्वमुल्लेखनादीनामिति शङ्काऽपि निरस्ता । ) एकमे(म)वोक्षणमुत्सेचनादिकं चेदानीं नानुतिष्ठन्ति पद्धत्यन्तरे लिखितं च नास्ति तद्भ्रान्तिमूलकमेव । धर्मसूत्रे एतेषां विधानबलादनावश्यकमिति
- ↑ ग. घ. ङः तत्वेन प्रकृ ।
- ↑ धनुश्चिह्नार्गतस्थाने क. पुस्तके--"उद्धत्येत्यत्राऽऽकाङ्क्षितं संस्कार्यपदार्थं साधनपदार्थं चोक्त्वाऽनन्तरं पुनर्धर्मशास्त्रे दर्शनादित्येतस्य मातृदत्तग्रन्थस्य न्यूनताक्रमप्रदर्शनपरताया एव वक्तुमशक्यत्वेन मध्येऽनुष्ठानासंभवात् । न च क्रमप्रदर्शनपरत्वे किं बाधकमिति वाच्यम् । पुनः शब्दस्य व्यर्थत्वापत्तेर्न्यूनताया अपरिहार्यत्वापत्तेश्च बाधकत्वात्" इति वर्तते ।