ततो दाता कर्मसाद्गुण्याय विष्णुं संस्मरेत् । एतच्च सर्वं सपत्नीकेनाभुक्त्वैव कार्यम् ।
एतदकरणे दोष इत्येतदर्थे वचनं पठन्ति--
"वंशदानं विना यस्तु मण्डपोद्वासनं यदि । |
वस्तुतस्तु महानिबन्धेष्वदर्शनादनाकरमिदम् ।
अन्यच्च शाकलकारिकासु--
"दंपत्योर्वाससी दत्त्वा पूजयेदैरिणीं ततः । |
चतुर्थेऽहन्येव पातवैधृती स्यातां चेदपि तदा कार्यमेव नान्यत्रेत्येतत्तात्पर्यार्थः ।
वस्तुतस्तु प्राचीननवीनग्रन्थेष्वेतस्यादर्शनादनादरणीयम् ।
इत्यैरिणीपूजनं दानं च ।
अथ चतुर्थीकर्म ।
तत्रेदं गृह्यम्--"चतुर्थ्यामपररात्रेऽग्निमुपसमाधाय प्रायश्चित्तिपर्यन्तं कृत्वा
- नव प्रायश्चित्तीर्जुहोतीत्यादि प्रायश्चित्तिपर्यन्तं कृत्वा स त्वं नो अग्ने,
- इत्येतदन्तं कृत्वाऽग्ने प्रायश्चित्त इत्येता नव प्रायश्चित्तीर्जुहोति" इति ।
मातृदत्तः-–प्रायश्चित्तिपर्यन्तं कृत्वेति वचनं समस्तव्याहृतीनामनादिष्टप्रायश्चित्तित्वबोधनार्थम् । तेनानुक्ते प्रायश्चित्ते समस्तव्याहृतिभिर्होम इति सिध्यति । अत एव सर्वप्रायश्चित्तमिति संज्ञा । तेन समस्तव्याहृतिपर्यन्तमेव कृत्वा नव प्रायश्चित्तीः प्रधानीभूता आहुतीर्जुहुयात् । अत्र प्रायश्चित्तित्वबोधनं चतुर्थीकर्मणः प्रायश्चित्तकर्मत्वेन प्रायश्चित्तकर्ममध्य एव प्रायश्चित्तिसंज्ञाज्ञापनस्य युक्तत्वात्कृतम् । चतुर्थीकर्मणः प्रायश्चित्तकर्मत्वं तु--अग्ने प्रायश्चित्त इत्यादिमन्त्रलिङ्गाज्ज्ञेयम् । पूर्वव्याख्याने प्रसिद्धव्याहृतिहोमानन्तर्य