परित्यागः, इमं म इत्यादीनां चतुर्णामेव प्रायश्चित्तसंज्ञेत्यत्र विनिगमकाभावः, अङ्गहोमस्य मध्ये प्रधानानुष्ठानस्याश्रुतस्य कल्पनं चेति दोषाः । अस्मदीयव्याख्याने तु नैते दोषाः । प्रत्युत शास्त्रान्तरप्रसिद्धाया याज्ञिकप्रसिद्धायाश्च स्वशास्त्रे समस्तव्याहृतिहोमस्य [१]सर्वप्रायश्चित्तित्वसंज्ञासिद्धिरधिकेति द्रष्टव्यमिति युक्तं प्रतिभाति ।
अथ प्रयोगः ।
पाणिग्रहणदिनमारभ्य या चतुर्थी रात्रिस्तस्यां त्रिभागावशिष्टायां वरः सपत्नीकः स्नात्वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्या भार्यायाः सोमगन्धर्वाग्न्युपभुक्तत्वदोषपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं चतुर्थीहोमं करिष्य इति संकल्पं कुर्यात् । अयं च संकल्पो न चतुर्थीकर्मान्तो विवाह इत्येतस्मिन्कल्पे ।
ततो गणेशं संपूज्य शिखिनामाऽयमग्निरित्यभिध्यायन्नग्निं प्रज्वाल्य चत्वारीति ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा चतुर्थीहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वाऽग्निं प्रायश्चित्तिं वायुं प्रायश्चित्तिमादित्यं प्रायश्चित्तिमादित्यं प्रायश्चित्तिं वायुं प्रायश्चित्तिमग्निं प्रायश्चित्तिमग्निं प्रायश्चित्तिं वायुं प्रायश्चित्तिमादित्यं प्रायश्चित्तिं चैकैकयाऽऽज्याहुत्या यक्ष्ये ।
अङ्गहोमे वरुणं द्वाभ्यामित्यादि, अग्निं स्विष्टकृतमित्यादि वा समिदभ्याधानान्तं कुर्यात् ।
मूर्ध्नि संस्रावहोमे--अग्निं वायुं सूर्यं प्रजापतिं च संस्रावाज्येनेति वदेदिति केचित् ।
एतच्च स्विष्टकृतः पूर्वमङ्गहोमकरणपक्षे तत्पूर्वं वा द्रष्टव्यम् । पात्रासादने संपातावनयनार्थं पात्रमुदकुम्भं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानिध्मं बर्हिरवज्वलनदर्भानाज्यं चेत्यासाद्य ब्रह्मवरणादिव्याहृतिहोमान्तं कृत्वा नव प्रधानाहुतीर्जुहुयात् ।
"ॐ अग्ने प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै घोरा तनस्तामितो नाशय स्वाहा" अग्नये प्रायश्चित्तय इदं न मम ।
- ↑ "सर्वप्रायश्चित्तिसंज्ञायाः सिद्धिः" इति पाठोऽत्र युक्ततरः ।