"मधु हे मध्विदं मधु जिह्वा मे मधुवादिनी । |
इति द्वाभ्यां तस्या मुखेन मुखं जुषति(ते) । इदमुपगमनमावश्यकं स्त्रीसंस्कारत्वात् ।
ततः कर्मणः साङ्गतासिद्ध्यर्थमाचार्याय दक्षिणां दत्त्वाऽन्येभ्यो भूयसीं दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
प्राचीनरीत्या प्रयोगे तु--अन्वाधाने व्याहृत्यनन्तरमङ्गहोमे वरुणं द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये, अग्निं वरुणं चैक[१]याऽऽज्याहुत्या यक्ष्ये, अग्निं वरुणं चै[२]कयाऽऽज्याहुत्या यक्ष्ये, इत्युक्त्वा प्रधानदेवतोल्लेखः । अनन्तरमयासमग्निमित्यादि । एतदनुसारेण होमः, इत्येतावान्विशेषो द्रष्टव्यः । अन्यत्समानम् ।
इति चतुर्थीकर्म ।
अथ देवकमण्डपोदासनम् ।
तत्र देवकोत्थापनस्य कालः--
"समे च दिवसे कुर्याद्देवकोत्थापनं बुधः । |
समेषु षष्ठं विषमेषु पञ्चमसप्तमातिरिक्तं दिनं नात्रेष्टमित्यर्थः ।
दिवससंख्या ज्योतिर्निबन्धे--
"प्रतिष्ठादिनमारभ्य यावत्षोडश वासराः । |
उद्वाहे षोडशदिनानि, मौञ्जीबन्धे दश दिनानि काल इत्यर्थः । एतेषु दिवसेषु पञ्चमसप्तमातिरिक्तं विषमं दिनं समेषु षष्ठं दिनं च वर्जयित्वाऽवशिष्टेऽन्यतमदिवसे स्थापितदेवतानामुद्वासनं पुण्या[३]हादिवाचनं चोपनयनवत्कुर्यात् ।
मण्डपविसर्जनं तु विवाहदिनमारभ्य यानि नवत्रिषष्ठदिनानि तानि वर्ज