पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५९६

पुटमेतत् सुपुष्टितम्
५८८
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( विवाहोत्तरं वर्ज्यानि )
 

अथ तदुत्तरं वर्ज्यानि ।

 योगयाज्ञवल्क्यः--

"न स्नायादुत्सवेऽतीते माङ्गल्यं विनिवर्त्य च ।
अनुव्रज्य सुहृद्बन्धूनर्चयित्वेष्टदेवताम्" इति ॥

 कार्ष्णाजिनिः--

"विवाहव्रतचूडासु वर्षमर्धं तदर्धकम् ।
पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम्" इति ॥

 व्रतमुपनयनम् ।

 हेमाद्रौ ज्योतिष्पराशरः--

"विवाहे विहितान्मासांस्त्यजेयुर्द्वादशैव हि ।
सपिण्डाः पिण्डनिर्वापे मौञ्जीबन्धे षडेव हि" इति ॥

 क्वचित्प्रतिप्रसवमाह स एव--

"महालये गयाश्राद्धे मातापित्रोः क्षयेऽहनि ।
यस्य कस्यापि मर्त्यस्य सपिण्डीकरणे तथा ।
कृतोद्वाहोऽपि कुर्वीत पिण्डनि[१]र्वपणं सदा" इति ।

 गयाश्राद्धपदं सर्वतीर्थश्राद्धोपलक्षणम् । क्षयाहग्रहणं नित्यानामष्टकादिश्राद्धानामुपलक्षणम् । नन्वेवं महालयेऽपि पिण्डनि[२]र्वपणसिद्धौ महालयग्रहणस्य व्यर्थत्वापत्तिः । अतः क्षयाहग्रहणमुपलक्षणमिति वक्तुमशक्यमिति चेन्न । महालये पिण्डदाननिषेधेन कालान्तरसद्भावात्कालान्तरे महालयानुष्ठानं स्यात्तन्माभूत्किं तु स्वकाल एव सपिण्डको महालयः कर्तव्य इत्येवं तस्य सार्थक्यसंभवात् । सपिण्डीकरणग्रहणं नवश्रा[३]द्धषोडशश्राद्धोपलक्षणम् । मातापित्रोरिति क्षयाहविशेषणं हविरुभयत्ववदविवक्षितं तेन भ्रातृपितृव्यादिवार्षिकेऽपि पिण्डदानं कार्यमेव ।

 बौधायनोऽपि--

"विवाहे चोपनयने चौले चैव यथाक्रमम् ।
वर्षमर्धं तदर्धं च नेत्येके तिलतर्पणम्" इति ।

 एतत्प्रतिप्रसवस्तु तर्पणप्रकरणे वक्ष्यते ।

 मदनरत्ने स्मृत्यन्त[४]रे--

"पिण्डान्सपिण्डा नो दद्युः प्रेतपिण्डं विनाऽत्र तु ।
पितृयज्ञे च यज्ञे च गयायां दद्युरेव ते" इति ।



  1. ग. च. निर्वाप ।
  2. ग. निर्वाप ।
  3. ङ. श्राद्धे षो ।
  4. क. न्तरेऽपि--पि ।