पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६

पुटमेतत् सुपुष्टितम्
[संस्काराः]
भट्टगोपीनाथदीक्षितविरचिता--

महादेवमहेशाभ्यां पद्धत्योः कृतयोर्यतः ।
न वै मूलं संगृहीतं कर्तुं तस्यापि संग्रहम् ॥ ९ ॥
क्वचित्क्वचित्कृतां ताभ्यां सूत्रस्वारस्यवर्जिताम् ।
संत्यज्य पद्धतिं तत्रान्यां वै रचयितुं तथा ॥ १० ॥
क्वचित्सूत्रे भाष्यकृता व्याख्या नैव कृता यतः ।
व्याख्यातुमपि तत्सूत्रमपि व्याख्यान्तरं क्वचित् ॥ ११ ॥
सूत्रस्वरसतः कर्तुं क्रियतेऽतो मयोद्यमः ।
मान्यान्मात्सर्यरहितान्सदाचारयुतान्बुधान् ॥ १२ ॥
मुहुर्मुहुः प्रणम्याहं प्रार्थयामि कृताञ्जलिः ।
अत्रानुक्तं दुरुक्तं वा मतेर्मान्द्याच्छ्रुतस्य वा ॥
यद्भवेत्पूरणीयं तद्विशोध्यं च विचक्षणैः ॥ १३ ॥

संस्काराः ।

 अथ संस्काराः । तानाह गौतमः--

"गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनानि, चत्वारि वेदव्रतानि, स्नानं, सहधर्मचारिणीसंयोगः, पञ्च महायज्ञाः, अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्थाः, अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यान्याग्रयणेष्टिर्निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः, अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमयज्ञसंस्थाः, इत्येते चत्वारिंशत्संस्कारा अष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो माङ्गल्यमकार्पण्यमस्पृहेति यस्यैते चत्वारिंशत्संस्कारा अष्टावात्मगुणाश्च स ब्रह्मणः सायुज्यमाप्नोति" इति ।

 स्नानं समावर्तनम् । सहधर्मचारिणीसंयोगो विवाहः । पार्वणः पार्वणस्थालीपाकः । श्राद्धं मासिकश्राद्धं तस्यैव संस्थात्वात् । तच्च श्राद्धप्रकरणे साधयिष्यामः । श्रावणी पौर्णमासी तत्र कर्तव्यं श्रवणाकर्म । आग्रहायणी मार्गशीर्षी तत्र कर्तव्यं प्रत्यवरोहणम् । चैत्री तत्र कर्तव्यः शूलगवः । आश्वयुज्याश्विनी पौर्णमासी तत्र कर्तव्यमाश्वयुजीकर्मेति । आपन्नस्य द्वेष्टुरपि रक्षणं दया । बाह्य आभ्यन्तरे वा परेण दुःख उत्पादितेऽपि तस्मिन्कोपाभावः क्षमा । सैव क्षान्तिः । गुणिनां गुणानाविष्करणमसूया । एतद्भिन्नाऽनसूया । निन्दितसंसर्गाभक्ष्यादिपरिहारपूर्वकं स्वधर्मव्यवस्थानं शौचम् । शरीरपीडावहक्षुद्रकर्माचरणमायासस्तद्भिन्नोऽनायासः । अप्रशस्तकर्मविवर्जनपूर्वकं प्रश