पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६०२

पुटमेतत् सुपुष्टितम्
५९४
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( अर्कविवाहप्रयोगः )
 

ग्रामात्प्राच्यामुदीच्यां वा सुपुष्पफलसंयुतम् ।
परीक्ष्य यत्नतोऽधस्तात्स्थण्डिलादि यथाविधि ॥
अर्ककन्याप्रदानार्थमाचार्यं कल्पयेत्पुरा ।
अर्कसंनिधिमागत्य तत्र स्वस्त्यादि वाचयेत् ॥
नान्दीश्राद्धं हिरण्येन अष्टवर्गान्प्रपूजयेत् ।
पूजयेन्मधुपर्केण वरं दाता तु शक्तितः ॥
यज्ञोप[१]वीतं वस्त्रं च हस्तकर्णादिभूषणम् ।
स्वशाखोक्तेन मार्गेण मधुपर्केण पूजयेत्" इति ॥

 स्वशाखोक्तेन दातृशाखोक्तेन ।

"मण्डपो मातृका देवास्त्रयः पितृगणास्तथा ।
गणेशदुर्गाक्षे[२]त्रेशाः कुलदेव्यष्टवर्गकाः" ॥

 इति स्मृतिदर्पण उक्ता अष्टवर्गाः ।)

अथ तस्य प्रयोगः ।

 कर्ताऽऽदित्यवारे हस्तनक्षत्रे शनिवासरे वा यस्मिन्कस्मिंश्चिच्छुभदिने वा पूर्वाह्णे ग्रामात्प्राच्यामुदीच्यां वा दिशि विद्यमानं सुपुष्पफलशाखाढ्यं स[३]ल्लक्षणमेकमर्कं परीक्ष्य स्नात्वाऽलंकृतोऽहतवासा आरक्तगन्धादिभूषितोऽर्कसंनिधिमागत्य तं संस्नाप्य वास[४]सा संवेष्ट्याऽऽरक्तगन्धादिभिर्भूषयित्वाऽर्ककन्यादानार्थमेकं विप्रमाचार्यत्वेन परिकल्प्यार्कसमीप एव मधुपर्कपर्यन्तं स यथा दृष्टिगोचरो न भवेत्तथोपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम तृतीयमानुषीविवाहसूचितदोषनिरसनपूर्वकतृतीयमानुषीविवाहाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं स्वस्य तृतीयमर्कविवाहं करिष्य इति संकल्प्य तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं[५] हिरण्येन नान्दीश्राद्धं च विधायार्कस्योत्तरतो होमार्थं स्थण्डिलमुपकल्पयेत् ।

 ततो दाता वरेणोपकल्पितया मधुपर्कसामग्र्योष्णीषादिभिर्हस्तकर्णादिभिर्भूषणैश्चार्कप्रतिग्रहीतारं पूजयेत्[६] । प्रतिग्रहीतृशाखया मधुपर्कः स्वशाखया वा ।

 ततः प्रतिग्रहीता--

"त्रिलोकवासिन्सप्ताश्व च्छायया सहितो रवे ।
तृतीयोद्वाहजं दोषं निवारय सुखं कुरु"



  1. ग. वीतव ।
  2. ङ. च. क्षेत्रज्ञाः कु ।
  3. ड. सलक्ष ।
  4. क. ग. ससाऽऽवे ।
  5. ङ. च. नं ना ।
  6. ङ. च. त् । दातृशाखयैवात्र मधुपर्कः । त ।