स विधिर्यथा--
आचार्यः संकल्पपूर्वकं पूर्ववन्नामगोत्रादिकमुच्चार्येमामर्कनाम्नीं कन्यां तृतीयमानुषीविवाहसूचितदोषनिरसनपूर्वकतृतीयमानुषीविवाहाधिकारसिद्धये तुभ्यमहं संप्रदद इति दद्यात् ।
प्रतिग्रहीता प्रतिगृह्णामीति प्रतिगृह्णीयात् । एवं पुनर्द्विः ।
तत आचार्यः प्रतिग्रहीतारं प्रार्थयेत्--
"अर्ककन्यामिमां विप्र यथाशक्तिविभूषिताम् । |
ततः प्रतिग्रहीता तूष्णीमेव विवाहवत्कङ्कणबन्धनपूर्वकमञ्जल्यक्षतारोपणं कृत्वा यावत्पञ्चवृत्तं सूत्रं तावदासत्येनेतिमन्त्रेण गायत्र्या वाऽर्कं संवेष्टयेत् । एतस्यर्ष्यादिकं पूर्ववत् । संवेष्टने विनियोग इति विनियोगे विशेषः । गायत्र्या ऋष्यादिकं तु संध्याप्रकरण उक्तम् । संवेष्टने विनियोग इति विनियो[१]गवाक्यम् । तूष्णीमेव संवेष्ट्य जपेदिति वा । अस्मिन्कल्पे जपे विनियोग इति विनियोगवाक्ये विशेषः ।
ततस्तत्सूत्रं पुनः पञ्चधा कृत्वाऽर्कस्य वामस्कन्धे--बृहत्सामेत्यस्य मन्त्रस्य विश्वे देवा इन्द्रो जगती । अर्कस्कन्धे सूत्रबन्धने तदुपरि भस्मप्रक्षेपणे च विनियोग इति स्मृत्वा, 'ॐ बृहत्साम० रक्ष' इति बद्ध्वैतेनैव तस्मिन्सूत्रे भस्म प्रक्षिपेत् ।
ततस्तां नीराज्य(नीराजयित्वा) यथाविभवं भूषणैर्भूषयेत् ।
ततोऽर्कस्य प्रागादिदिक्षु क्रमेण मही द्यौरिति भूमिं स्पृष्ट्वा, ओषधय इति तण्डुलपुञ्जान्कृत्वा, आजिघ्रेति कलशान्संस्थाप्य, तथैवाऽऽग्नेयादिदिक्षु संस्थापयेत् ।
ततः स्थापितानष्टौ कलशान्प्रत्येकं वस्त्रसूत्राभ्यां वेष्टयित्वेमं मे गङ्ग इति हरिद्रागन्धयुक्तशीतलजलेनाऽऽपूर्य तेषु प्रत्येकं गन्धादिकं तत्तन्मन्त्रैर्निक्षिप्य पूर्णपात्रैरपिदधाति, सर्वत्र मन्त्रावृत्तिः ।
ततस्तेषु नाममन्त्रेणैव महाविष्णुमावाह्याऽऽसनाद्यैरुपचारैः पू[२]जयेत् ।
ततोऽर्कस्योत्तरत उपकल्पितस्य स्थण्डिलस्य पश्चादुपविश्यार्कं संस्पृशन्स्थण्डिलस्यो[३]द्धननोल्लेखनादिविधिना संस्कारं विधाय तत्र योजकनामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्वात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणाया