पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६०७

पुटमेतत् सुपुष्टितम्
[विवाहः]
५९९
संस्काररत्नमाला
( गृह्याग्निद्वयसंसर्गप्रयोगः )
 

जज्ञानं पिता विराजामिति द्वाभ्यामेवमनुष्ठानतन्त्रता परिसिध्यतीत्याह भगवान्बौधायनः" इति ।

अथ प्रयोगः ।

 कर्ता द्वितीयविवाहहोमकाले वेद्यां स्थण्डिलं कृत्वोल्लेखनादिसंस्कारान्विधाय तत्र पूर्वभार्याया गृह्याग्निं योजकनामानमग्निं प्रतिष्ठापयामीति प्रतिष्ठाप्य तत्र द्वितीयविवाहहोमः कार्यः । प्रतिगृहीतायां वध्वां भार्यात्वसिद्धिद्वारेत्येतावानेवोल्लेखः । गृह्याग्नेरसांनिध्याल्लौकिकाग्नौ क्रियायां तु [न] भवत्येतस्याप्युल्लेखः । यस्मिन्काले द्वावप्यग्नी संनिहितौ भवतस्तत आरभ्य द्वादशाहं त्रयोदशाहं वोभावप्यग्नी होमादिभिः पृथक्परिचरेत् ।

 ततस्तदग्रिमे दिने प्रातर्होमद्वयानन्तरमग्निद्वयसंसर्गं कुर्यात् । इदं च परिचरणं द्वादशाहमध्ये त्रयोदशाहमध्ये वा स्थालीपाकस्याप्राप्तौ ज्ञेयम् । यदि त्वन्वारम्भणस्थालीपाकः कर्तव्यो भवति तदा तं कृत्वैव कार्यः ।

 ततः प्राङ्मुखः पत्नीभ्यां सहोपविश्याऽऽचम्य प्राणानायंम्य देशकालौ संकीर्त्य मम गृह्याग्निसाध्यानां कर्मणां तन्त्रेणानुष्ठानसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं गृह्याग्निद्वयसंसर्गमहं करिष्य इति संकल्प्य तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च विदध्यात् । इन्द्रादयः प्रीयन्तामिति तत्र विशेषः ।

 ततः स्थण्डिलद्वयमुदक्संस्थं कृत्वा स्वं स्वमग्निं पत्नीभ्यामानीतं स्थण्डिलयोरुत्तरतः पृथङ्निधाय दक्षिणस्थण्डिलस्योल्लेखनादिसंस्कारं विधाय तत्र द्वितीयविवाहाग्निं संस्थाप्य प्रज्वाल्य परिस्तीर्योत्तरतो दर्भान्संस्तीर्य स्रुवं दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानाज्यं समिधं चाऽऽसाद्य पवित्रकरणाद्याज्यसंस्कारान्तं कृत्वाऽऽसादितां समिधमभ्याधाय स्रुवेण दर्व्यां चतुर्गृही[१]तं[२] गृहीत्वा द्वितीयभार्यान्वारब्धो नमस्त ऋषे गदेत्यस्य सोम इन्द्रो बृहती । होमे विनियोगः । 'ॐ नमस्त ऋषे०न्तवेदस्तु स्वाहा' इति जुहोति । इन्द्रायेदं० ।

 ततः खादिर्या(रा)द्यन्यतमसमिधं शुद्धोदकेन प्रोक्ष्य तस्यां समिधि द्वितीयभार्यान्वारब्धः, अयं ते योनिरित्यस्याग्निरग्निरनुष्टुप् । समारो[३]पणे विनियोगः । 'ॐ अयं ते० रयिम्' इति तं समारोपयेत् ।

 ततस्तां समिधं द्वितीयभार्याहस्ते दत्त्वोत्तरस्थण्डिलस्योद्धननादि कृत्वा तत्र



  1. क. हीत्वा ।
  2. ग. तं चतुर्गृही ।
  3. क. ख. रोपे वि ।