पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६०८

पुटमेतत् सुपुष्टितम्
६००
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( गृह्याग्निद्वयसंसर्गप्रयोगः )
 

प्रथमविवाहाग्निं संस्थाप्य प्र[१]ज्वलयित्वा(प्रज्वाल्य), आजुह्वान इत्यस्याग्निरग्निस्त्रिष्टुप् । उद्बुध्यस्वाग्न इत्यस्याग्निरग्निस्त्रिष्टुप् । समारूढाग्निकसमिदभ्याधाने विनियोगः--'ॐ आजुह्वानः सु प्र०सीदत' 'ॐ उद्बुध्यस्वा०तन्तुमेतम्' इति समारूढाग्निकां समिधमभ्याधाय परिस्तीर्य परिषिच्यालंकृत्य पूर्वसंस्कृतादाज्यादन्यमा(दा)ज्यं संस्कृतं तस्मात्पूर्वाज्याद्वा स्रुवेण दर्व्या चतुर्गृहीतं गृहीत्वा--यो ब्रह्मा ब्रह्मण इत्यष्टर्चेनाऽऽयुष्यकल्पपठितेन घृतसूक्तेन पत्नीभ्यामन्वारब्धस्तदाज्यमभिमृशति ।

"ॐ यो ब्रह्मा ब्रह्मण उज्जभार प्राणेश्वरः कृत्तिवासाः पिनाकी ।
ईशानो देवः स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन ॥ १ ॥
विभ्राजमानः सरिरस्य मध्याद्रोचमानो धर्मरुचिर्य आगात् ।
स मृत्युपाशादपनुद्य घोरादिहाऽऽयुषे नो घृतमत्तु देवः ॥ २ ॥
ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भं यमादधात्पुरुरूपं जयन्तम् ।
सुवर्णरम्भं, गृहकर्ममर्चन्तमायुषे वर्धयामो घृतेन ॥ ३ ॥
श्रियं लक्ष्मीमम्बिकामौपलाङ्गां षष्ठीं च यामिन्द्रसेनेत्युदाहुः ।
तां विद्यां ब्रह्मयोनि सरूपामिहाऽऽयुषे तर्पयामो घृतेन ॥ ४ ॥
दाक्षायण्यः सर्वयोन्यः सयोन्यः सहस्रशो विश्वरूपा विरूपाः ।
ससूनवः सपतयः सयूथ्या आयुषे नो घृतमिदं जुषन्ताम् ॥ ५ ॥
दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमथन्तु वीरान् ।
तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजा रीरिषो मोत वीरान् ॥ ६ ॥
एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवन सांपराये स नो हविर्घृतमिहाऽऽयुषेऽत्तु देवः ॥ ७ ॥
वसून्रुद्रानादित्यान्मरुतोऽथ साध्यानृभून्यक्षान्गन्धर्वा श्च पितॄ श्श्च विश्वान् ।
भृगून्सर्पा श्चाङ्गिरसोऽथ सर्वान्घृत हुत्वा स्वायुष्याह्वयाम शश्वत् " ॥ ८ ॥

 इत्यभिमृश्यैतेनैव सूक्तेन प्रत्यृचं स्वाहान्ते तदाज्यं जुहोति । ब्रह्मण इदं० १ । देवायेदं० २ । ज्योतिष इदं० ३ । विद्याया इदं० ४ । दाक्षायणीभ्य इदं० ५ । दिव्येभ्यो गणेभ्य इदं० ६ । देवायेदं० ७ । वसुभ्यो रुद्रेभ्य आदित्येभ्यो मरुद्भ्यः साध्येभ्य ऋभुभ्यो यक्षेभ्यो गन्धर्वेभ्यः पितृभ्यो भृगुभ्यः सर्पेभ्योऽङ्गिरोभ्य इदमिति क्रमेण त्यागः ।

 पूर्वत्र समन्त्रकपरिषेकेऽत्रोत्तरः परिषेकः कार्यः ।



  1. ग. प्रज्वालयित्वा ।