पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६०९

पुटमेतत् सुपुष्टितम्
[विवाहः]
६०१
संस्काररत्नमाला
( विवाहाग्निद्वयसंसर्गप्रयोगः.)
 

 ततश्चत्वारि शृङ्गेति ध्वात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा गृह्याग्निद्वयसंसर्गहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा, प्रधानहोमे--अग्निं पुरोनुवाक्यायाज्याभ्यामेकया चर्वाहुत्या यक्ष्ये । अग्निं जातवेदसौ पृथिव्यादीनग्निं वैश्वानरं चैकैकयाऽऽज्याहुत्या यक्ष्ये । निर्ऋतिं पञ्चभिराज्याहुतिभिर्यक्ष्ये । उदकस्पर्शः । इन्द्रमेकयाऽऽज्याहुत्या यक्ष्ये । भूमिकर्षकरूपाग्निं षड्भिराज्याहुतिभिर्यक्ष्ये । कामदुघं सीतां चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा, अन्वाधानोत्कीर्तितपक्षानुसारेणाङ्गहोमे वरुणं द्वाभ्यामित्यादि, अग्निं स्विष्टकृतं हुतशेषचर्वाहुत्या यक्ष्य इत्यादि वा, आत्मन्यग्निग्रहणान्तं कृत्वोत्तरेणाग्निं दर्भान्संस्तीर्य तत्र स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रं चरुस्थालीं मे[१]क्षणं शूर्पं कृष्णाजिनमुलूखलं मुसलमुपवेषं संमार्गदर्भानिध्मं बहिरवज्वलनदर्भानाज्यं चाऽऽसादयेत् ।

 ततो ब्रह्मवरणादि । चरुकल्पेन चरुं श्रपयित्वा स्रुवदर्व्यौ संमृज्याऽऽज्यसंस्कारं कुर्यात् । तत्र पर्यग्निकरणकाले चरुणा सहाऽऽज्यं पर्यग्नि कुर्यात् ।

 ततः परिधीन्परिधाय शृतं चरुमभिघार्योदगुद्वास्य बर्हिषि निधाय परिषेकादिव्याहृतिहोमान्तं प्रसाधनीदेवीहोमान्तं वाऽन्वाधानोत्की[२]र्तनानुसारेण कृत्वा प्रधानहोमं कुर्यात् । दर्व्यामुपस्तीर्य मेक्षणेन मध्यात्पूर्वार्धाच्च चरोरङ्गुलपर्वमात्रमवदाय, पञ्चावत्ती चेत्पश्चार्धात्तृतीयमवदाय, स्रुवेणावत्तमभिघार्य शेषं प्रत्यज्य पत्नीभ्यामन्वारब्धः,

 समितमित्यनयोरग्निर्ऋषिः । अग्निर्देवता । गृह्याग्निद्वयसंसर्गप्रधानचरुहोमे विनियोगः । 'ॐ समित संकल्पे० न्याकरम्' । 'ॐ अग्ने पु० धेहि स्वाहा'  इति पुरोनुवाक्यायाज्याभ्यां जुहोति । अग्नय इदं० ।

 अथवैकश्रुत्येन प्रथमामृचमुक्त्वा त्रिमात्रं प्रणवं संयोज्य तेन सहैकश्रुत्येन द्वितीयामृचमुक्त्वाऽन्त्यं स्वरं प्लावयित्वा स्वाहाकारेण जुहुयात् ।

 यथा-- 'ॐ समित संक० स्यमानौ । इषमूर्जमभिसं० त्तान्याकरो३मग्ने पुरी० त्वं नः । इषमूर्जं यजमानाय धेही३ स्वाहा" इति ।

 पञ्चावत्तिनस्तु--

"जामदग्न्या वत्स[३]बिदा आर्ष्टिषेणास्तथैव च ।
भा[४]र्गवा[५]श्च्यावना और्वाः पञ्चावत्तिन ईरिताः" इति ॥

 पुरीष्यस्त्वमित्यादीनामष्टादशानां मन्त्राणामग्निर्ऋषिः । प्रथमस्याग्निर्दे



७६
 
  1. ख. ग. ङ. च. प्रोक्षणं ।
  2. क. त्कीर्तितपक्षानु ।
  3. क. ख. ग. च. त्सविदा ।
  4. ग. ङ. र्गवच्याव ।
  5. च. वाच्याव ।