पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६१०

पुटमेतत् सुपुष्टितम्
६०२
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( विवाहाग्निद्वयसंसर्गप्रयोगः )
 

वता, द्वितीयस्य जातवेदसौ, तृतीयस्य पृथिव्यादयः, चतुर्थस्याग्निर्वैश्वानरः, पञ्चमादीनां पञ्चानां निर्ऋतिः, दशमस्येन्द्रः, एकादशादीनां षण्णां भूमिकर्षकरूपोऽग्निः, सप्तदशस्य कामधुक्, अष्टादशस्य सीता । प्रथमस्यानुष्टुप् । द्वितीयस्य पञ्चपदा पङ्क्तिः । तृतीयस्य त्रिष्टुप् । चतुर्थस्यानुष्टुप् । पञ्चमादीनां षण्णां त्रिष्टुप् । द्वादशत्रयोदशयोर्गायत्री । चतुर्दशस्य त्रिष्टुप् । पञ्चदशस्य पञ्चपदा पङ्क्तिः । षोडशस्य त्रिष्टुप् । सप्तदशस्य विराडनुष्टुप् । अष्टादशस्य त्रिष्टुप् । गृह्याग्निद्वयसंसर्गप्रधानाज्यहोमे विनियोगः--

"ॐ पुरीष्यस्त्व० सदः स्वाहा" अग्नय इदं० ।
"ॐ भव तं नः० मद्य नः स्वाहा" जातवेदोभ्यामिदं० ।
"ॐ मातेव पुत्रं० मुञ्चन्तु स्वाहा" पृथिव्यादिभ्य इदं० ।
"ॐ यदस्य पारे० वैश्वानर स्वाहा" अग्नये वैश्वानरायेदं० ।
"ॐ नमः सुते नि० रोहयेम स्वाहा" निर्ऋतय इदं० ।
"ॐ यत्ते देवी० प्रमुक्तः स्वाहा" निर्ऋतय इदं० ।
"ॐ यस्यास्ते अस्याः क्रूर० विश्वतः स्वाहा" निर्ऋतय इदं० ।
"ॐ असुन्वन्तम० तुभ्यमस्तु स्वाहा" निर्ऋतय इदं० ।
"ॐ देवीम० विचष्टे स्वाहा" निर्ऋतय इदं न मम ।

 पञ्चसूदकस्पर्शः ।

  "ॐ निवेशनः संगमनो० पथीना स्वाहा" इन्द्रायेदं० ।
  "ॐ संवरत्रा दधातन० मक्षित स्वाहा" भूमिकर्षकरूपायाग्नय इदं० ।
  "ॐ निष्कृताहावम वट अक्षित स्वाहा" भूमिकर्षकरूपायाग्नय इदं० ।
  "ॐ सीरा युञ्जन्ति० सुम्नया स्वाहा" भूमिकर्षकरूपायाग्नय इदं० ।
  "ॐ युनक्त सीरा० मायात्स्वाहा" भूमिकर्षकरूपायाग्नय इदं० ।
  "ॐ लाङ्गलं पवीरव वाहन स्वाहा" भूमिकर्षकरूपायाग्नय इदं० ।
  "ॐ शुनं नः फाला० मस्मासु धत्त स्वाहा" भूमिकर्षकरूपायाग्नय इदं० ।
  "ॐ कामं कामदुघे धुक्ष्व० प्रजाभ्यः स्वाहा" कामदुह इदं० ।
  "ॐ घृतेन सीता मधुना समक्ता० भ्याववृत्स्व स्वाहा" सीताया इदं० ।

 ततो दर्व्यामुपस्तीर्य मेक्षणेनैव चरोरुत्तरार्धादङ्गुष्ठपर्वतोऽधिकमवदाय, पञ्चावत्ती चेद्द्विरवदाय द्विरभिघार्य न हविः प्रत्यभिघारयति--"ॐ यदस्य कर्मणोऽत्यरीरिच० समर्धयित्रे स्वाहा" इत्यैशान्यां जुहोति । अग्नये स्विष्टकृत इदं न मम ।