पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६२०

पुटमेतत् सुपुष्टितम्
६१२
[औपासनहोमः]
भट्टगोपीनाथदीक्षितविरचिता--

रिणामनुकूलः "न स्त्री जुहुयान्नानुपेतः" इति धर्मसूत्रे निषेधात् । अत ए[]व कुमारीकर्तृकहोमोऽपि न । अयं च निषेधो द्विजनियमार्थ इति व्याख्यातारः । विट्पतिर्जामाता ।

 माधवीये होतृतारतम्यमुक्तम्--

"अन्यैः शतहुताद्धोमादेकः शिष्यहुतो वरम् ।
पुत्रैः शतहुताद्धोमादेको ह्यात्महतो वरम्" इति ॥

कात्यायनः--

"नातिवृद्धो भवेद्धोता नाल्पविद्यो न बालिशः ।
नाऽऽर्तो नासंस्कृतश्चैव अग्निहोत्रादिकर्मसु ॥
नरकं हि पतन्त्येते जुह्वतः स च यस्य तत् ।
तस्माद्वैतानकुशलो होता स्याद्वेदपारगः" इति ॥

 वैतान इत्युपलक्षणं स्मार्तकर्मणः ।

 गोपालः--

"अल्पविद्यैरविद्यैर्वा हुते पत्न्या हुतेऽपि वा ।
जुहुयादग्निहोत्रं च लौकिकाग्नावनापदि ॥
वित्दृत्य तान्व्यात्दृतिभिः कार्ये पूर्णाहुतीष्टिके" इति ॥

 पूर्णाहुतीष्ट्योरत्र समुच्चय इति व्याख्याकृत् । इष्टिरत्र तन्तुमती । बौधायनोक्तेः । स्मार्ते तु, इष्टिस्थाने चरुः । एतच्चानापद्विषयम् । आपदि तु ब्राह्मणमात्रस्याऽऽर्त्विज्यार्थं वरणेऽनादिष्टप्रायश्चित्तेषु आज्यस्थाल्याः स्रुवेणोपहत्य जुहोति प्रजापतये स्वाहा हिरण्यगर्भाय स्वाहा भृगूणां पतये स्वाहाऽङ्गिरसां पतये स्वाहेति सर्वप्रायश्चित्तं च । भृगूणां पतये स्वाहाऽङ्गिरसां त[]पसे स्वाहेत्येवमपि पाठः । कार्यव्यासक्तावपि पर्वणि तु स्वयमेव 'पर्वणि यजमानः स्वयमग्निहोत्रं जुहोति' इति पर्वणि स्वकर्तृकत्वनियमात् । यद्यपीदं श्रौतं तथाऽपि श्रौतमध्ये स्मार्ताम्नानबलात्स्मार्तेऽपि लभ्यते । न चैवं वपनमपि पर्वणि प्राप्नोतीति वाच्यम् । 'यज्वनः पर्वणोः क्षौरम्' इति वचने यज्वग्रहणेनाऽऽहिताग्नेरेव पर्वणि क्षौरं न स्मार्ताग्निमत इत्येतादृशार्थस्यैव बोधनात् । यदि त्वशक्तिरसांनिध्यं वा तदाऽन्यो जुहुयादेव न तु सर्वथा लोपो नित्यत्वात् ।

 शक्तौ सांनिध्ये वा पर्वणि स्वयमजुह्वतः प्रायश्चित्तं बृहस्पतिराह--

"आहिताग्निरुपस्थानं न कुर्याद्यस्तु पर्वणि ।
ऋतौ न गच्छेद्भार्यां वा सोऽपि कृच्छ्रार्धमाचरेत्" इति ॥



  1. ख. ग. ङ. च. एवैवं कु ।
  2. ग. ङ. च. पतये ।