पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६२१

पुटमेतत् सुपुष्टितम्
[औपासनहोमः]
६१३
संस्काररत्नमाला
( ऋत्विग्लक्षणम् )
 

 अत्रोपस्थानग्रहणं होमोपलक्षणम् । ऋत्विगादिभिरयं होमो दंपत्योः संनिधाने सत्येव कार्यः । अभावेऽन्यतरसंनिधाने । उभयोरप्यसंनिधाने हुतमप्यहुतं भवति ।

 तदुक्तं स्मृत्यर्थसारे--

"असमक्षं तु होतव्यं दंपत्योर्नर्त्विगादिभिः ।
द्वयोरप्यसमक्षं चेद्भवेद्धुतमनर्थकम्" इति ॥

स्मृ[१]त्यन्तरे--

"संनिधौ यजमानः स्यादुद्देशत्यागकारकः ।
तदभावे तु पत्नी स्यादुद्देशत्यागकारिणी ॥
[२]तदभावे तु पुत्रः स्यादुद्देशत्यागकारकः" इति ।

 यजमानस्योन्मादे पत्न्यां चर्तुमत्यां प्रसूतायां वा नानुज्ञा पत्न्याः ।

"असंनिधौ तु पत्न्याः स्यादध्वर्युस्तदनुज्ञया ।
उन्मादे प्रसवे चर्तौ कुर्वीतानुज्ञया विना" ॥

 इति मदनपारिजाते स्मृतेः । एतस्मादेव वचनाज्ज्ञायत ऋत्विगादीनां होमार्थमनुज्ञापेक्षाऽस्तीति ।

 अस्ति च स्पष्टं कौर्मं वचनम्--

"ऋत्विक्पुत्रोऽथवा पत्नी शिष्यो वाऽपि सहोदरः ।
प्राप्यानुज्ञां विशेषेण जुहुयात्तु यथाविधि" इति ॥

 विशेषेणेति वचनं ममाऽऽवश्यकं कार्यं किंचिदस्ति मम काचिदापदस्ति त्वया होमः कार्य इति विशेषतोऽनुज्ञापेक्षणार्थम् ।

 अन्यच्च स्मृत्यर्थसारे--

"नोपवासी प्रवासे स्यात्पत्नी धारयते व्रतम् ।
सर्वथा यजमानो[३] हि त्यजेत्तद्दिङ्मुखः शुचिः" इति ॥

 तद्दिङ्मुखो यस्यां दिश्यग्नयो भवन्ति तद्दिगभिमुख इत्यर्थः ।

 ऋत्विग्लक्षणमाहाऽऽश्वलायनः--

"ऋत्विजो वृणीतेऽन्यूनानतिरिक्ताङ्गान्ये मातृतः पितृतश्चेति
यथोक्तं पुरस्ताद्यून ऋत्विजो वृणीत इत्येके" इति ।



  1. म. ड. च. आचाररत्ने स्मृत्यर्थसारे ।
  2. इदमर्ध क. ख. पुस्तकस्थम् ।
  3. ङ. नोऽपि त्य ।