पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६२४

पुटमेतत् सुपुष्टितम्
६१६
भट्टगोपीनाथदीक्षितविरचिता-- [औपासनहोमः]
( ऋत्विग्लक्षणम् )
 

 तथा च प्रायश्चित्तदर्पणे स्मृतिः--

"रजस्वलाऽङ्गना यस्य गर्भिणी वा यदा भवेत् ।
न यज्ञे वरणे योग्यो गालवो मुनिरब्रवीत्" इति ।

 यज्ञशब्देनाऽऽधानादिकर्माणि गृह्यन्ते । एतच्च स्मार्तकर्मोपलक्षणम् ।

 रुद्रस्कन्धभाष्ये--

"रजस्वलायां भार्यायामार्त्विज्यं श्राद्धभोजनम् ।
यात्रामम्बुनिधिस्नानं वर्जयेत्तत्पतिः सदा ।

 गर्गः--

क्षुरकर्म तथाऽऽर्त्विज्यं यात्राम(चा)भ्यङ्गमेव च ।
देवतार्चां(र्चा) परगृहे सागरस्नानमेव च ।
श्राद्धभुक्तिं च(क्तिश्च) वर्ज्यं स्याद्यदि पत्नी रजस्वला ।

शाट्यायनिः--

रजस्वलापतिर्यात्रामार्त्विज्यं श्राद्धभोजनम् ।
सिन्धुस्नानं तथाऽभ्यङ्गं क्षुरकर्म च वर्जयेत् ।

  तत्र ऋत्विजस्त्रिविधा देवभूताः पितृभूता मनुष्यभूताश्च । तत्र स्वेनैव
  कर्मणि कर्मणि वृतास्ते देवभूताः । ये तु पूर्वैर्वृता एव कर्मणि प्रव-
  र्तन्ते ते पितृभूताः । ये तु स्वेनैव सर्वकर्मार्थं सकृदेव वृतास्ते मनुष्य-
  भूताः" इति ।

 तत्रेदानीं मनुष्यभूता एवर्त्विजः । आशौचं तु पितृभूतदेवभूतानामेवर्त्विजां न मनुष्यभूतानामिति द्रष्टव्यम् । होमे पत्न्या अपि सांनिध्यमपेक्षितम् । 'पत्युर्नो यज्ञसंयोगे' इति पाणिनिस्मृत्या पत्नीशब्दस्य यज्ञसंयोग एवोत्पन्नत्वात् । 'असमक्षं तु होतव्यं दंपत्योर्नर्त्विगादिभिः ' इतिवचनाच्च ।

 असंनिधाने सर्वप्रायश्चित्तं होतव्यम् । अनालम्भुका चेन्न दोषः । प्रवसति यजमाने यदाऽनालम्भुका तदा तया गृहान्तरान्तरितया न स्थातव्यं किं त्वौपासनाग्निगृहसमीपे बहिरेवेत्यग्निहोत्रहोमप्रायश्चित्तप्रकरणे व्याख्यातारः ।

 श्रौतस्मार्तहोमयोः पूर्वापरभावे पक्षद्वयमाह भरद्वाजः--

"होमं वैतानिकं कृत्वा स्मार्तं कुर्याद्विचक्षणः ।
स्मृतीनां वेदमूलत्वात्स्मार्तं केचित्पुरा विदुः" इति ।

 उ(औ)पासनप्रशंसा भरद्वाजसूत्रे--

"यथैश्वर्यबलादीश्वराः स्वान्देहान्परित्यज्यान्येषां देहान्प्रविश्य पुनरात्मदेहान्प्रत्यागच्छन्ति, न च तेन दुर्ज्ञायते, औपासनेऽग्नयो विनि(निवि)ष्टा औपासनौ(नो) यजमाने तस्मादौपासनान्न प्रमदितव्यं यथ ऋषभ ऋष