पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६२७

पुटमेतत् सुपुष्टितम्
[औपासनहोमः]
६१९
संस्काररत्नमाला
( औपासनहोमप्रयोगः )
 

वदेत् । प्रातरप्यग्नेर्देवतात्वपक्षेऽग्निप्रजापती प्रीयेतामित्यूहः । एतदन्तं प्रथमप्रयोग एव न तु प्रतिप्रयोगम् ।

 ततः पुनराचमनप्राणायामदेशकालसंकीर्तनानि कृत्वा श्रीपरमेश्वरप्रीत्यर्थं सायंप्रातरौपासनहोमौ होष्यामि । इदानीं सायमौपासनहोमं व्रीहिभिर्होष्यामीति संकल्पं कुर्यात् । यवैरिति यवपक्षे । अथवा सायमौपासनहोमं व्रीहिभिर्यवैर्वा होष्यामि प्रातरौपासनहोमं व्रीहिभिर्यवैर्वा होष्यामीति भिन्नौ संकल्पौ । अस्मिन्पक्षे न द्रव्यैक्यकर्त्रैक्यनियमः । उभयपक्षेऽपि संकल्पवाक्ये द्रव्योल्लेखो न वा कर्तव्यः ।

 ततश्चत्वारि शृङ्गेति ध्यात्वाऽग्निं परिस्तीर्य होमद्रव्यमग्नेरुत्तरतो निधाय तदुपरि प्रागग्रां प्रादेशमात्रीमेकां समिधं द्वे वा प्रागग्रे प्रादेशमात्र्यौ समिधौ निधाय दक्षिणेन हस्तेनौपासनाग्नौ प्रज्वलितैर्दर्भैरवाचीनज्वालैरुपरि ज्वलयित्वा ज्वलितान्दर्भान्सव्यहस्ते गृहीत्वा दक्षिणेन दर्भाग्रे अङ्गुष्ठपर्वमात्रे तस्मिन्प्रक्षिप्य प्रज्वलितान्दर्भान्दक्षिणेन हस्तेन बहिर्निरस्याप उपस्पृश्यान्यान्दर्भानादायौपासनाग्नौ प्रज्वलितैः पर्यग्नि कृत्वा तानपि दर्भान्बहिर्निरस्याप उपस्पृश्याग्नेः पश्चात्कूर्चे होमद्रव्यं निदधाति । न वा दर्भाग्रप्रत्यसनं सूत्रान्तरीयत्वात् । अस्मिन्पक्ष उपरिज्वलनोत्तरं सव्यहस्ते ग्रहणं न । श्रौतभक्तत्वात्पर्यग्निकरणं तु भवत्येव । एवं कूर्चे निधानं च । त[१]तः पूर्वपरिषेकं कुर्यात् । ततो विवाहहोम उक्तेन प्रकारेण दक्षिणं हस्तं संमृज्य यस्त्वा हृदेत्यग्निमभ्यर्च्य तूष्णीं होमद्रव्योपरिस्थां समिधं प्रागग्रामग्नावाधाय द्वादशपर्वपरिमितं होमद्रव्यं संस्पृष्टाङ्गुलिदक्षिणहस्ततले गृहीत्वाऽग्नये स्वाहेति ज्वलन्त्यां समिधि मूलाद्द्व्यङ्गुलपरिमितं प्रदेशं त्यक्त्वोत्तरपार्श्वेन जुहोति । अग्नय इदं न मम ।

 ततः पूर्वाहुतितोऽधिकमवशेषितं होमद्रव्यं सर्वमादाय प्रजापतिं मनसा ध्यायन्प्रजापतये स्वाहेति मनसा मन्त्रमुच्चारयन्पूर्वाहुतितो द्व्यङ्गुलपरिमितं प्रदेशं त्यक्त्वोत्तरपार्श्वेनैव जुहोति । प्रजापतय इदं न मम । द्रवद्रव्यहोमे तु दर्व्या स्रुवेण वा होमः ।

 ततो द्वितीयां समिधमादध्यात् । न वा द्वितीयसमिदाधानम् । अस्मिन्पक्षे पर्यग्निकरणकाल एकैव समित् ।

 ततः परिस्तरणान्यग्नेरुत्तरतो विसृज्योत्तरपरिषेकं कुर्यात् । न वा परिस्तरणपूर्वपरिषेकपरिस्तरणविसर्गोत्तरपरिषेकाः ।



  1. ख. ग. ङ. च. ततो ।