पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६२८

पुटमेतत् सुपुष्टितम्
६२०
भट्टगोपीनाथदीक्षितविरचिता-- [औपासनहोमः]
( औपासनहोमप्रयोगः )
 

 ततोऽग्निर्मूर्धेत्यादिमन्त्रत्रयस्याग्निर्ऋषिरग्निर्देवता । गायत्री छन्दः । प्रजापत इत्यस्य विश्वे देवा ऋषयः । प्रजापतिर्देवता । त्रिष्टुप्छन्दः । उपस्थाने विनियोगः । 'ॐ अग्निर्मूर्धा दि० त्वामग्ने० अयमग्निः०' इति त्रिभिर्मन्त्रैरग्निमुपस्थाय 'ॐ प्रजापते न०' इति प्रजापतिमुपतिष्ठते । ( [१] जप एव वा । अस्मिन्पक्षे जपे विनियोग इति विनियोगवाक्ये विशेषः। ) ततः संस्थाजपं कृत्वाऽग्निं संपूज्य भस्म धृत्वा श्रद्धां मेधामिति संप्रार्थ्य नमस्कृत्यानेन सायमौपासनहोमेन श्रीपरमेश्वरः प्रीयतामिति कर्मेश्वरायार्पयेत् । प्रातरौपासनहोमे तु प्रातरौपासनहोमं व्रीहिभिर्होष्यामीति संकल्पः । यवैरिति यवपक्षे । अग्नये स्वाहा सूर्याय स्वाहेति वेति पूर्वाहुतौ देवताविकल्पः । अग्नेर्देवतात्वपक्षे सायंहोमवदेवोपस्थानम् । सूर्यस्य देवतात्वपक्षे तु-- उद्वयमुदु त्यं चित्रमिति मन्त्रत्रयस्य सोम ऋषिः । सूर्यो देवता । प्रथमस्यानुष्टुप् । द्वितीयस्य गायत्री । तृतीयस्य त्रिष्टुप् । उपस्थाने विनियोगः । 'ॐ उद्वयं० उदु त्यं० चित्रं०' इति त्रिभिर्मन्त्रैः सूर्योपस्थानं कृत्वा प्रजापत्युपस्थानादि समानम् । तत्र प्रातरौपासनहोमेन श्रीपरमेश्वरः प्रीयतामितीश्वरार्पणवाक्ये विशेषः । पयोहोमे तु पयोधिश्रपणार्थं बहिरङ्गारनिरूहणं कृत्वा तत्राधिश्रित्य स्रुवपरिमितजलप्रत्यसनं कार्यमेव स्वसूत्रोक्तत्वात् । श्रौतभक्तत्वादत्र प्राप्तिः । दधिसोमतण्डुलानां तु अङ्गारेष्वधिश्रयणं प्रतिषेकश्च न । 'यदन्यदधिश्रयणात्प्रतिषेकाच्च तद्दध्नस्तण्डुलाना सोमस्य च क्रियते' इति वचनात् । दध्यत्र लौकिकम् । तण्डुलास्तु व्रीहीणां तत्रैव सार्वजनीनप्रसिद्धेः । सोमस्य रस एव न वल्ली । पूतीकास्तु यागार्थ एव प्रतिनिधिर्वाचनिको न सर्वत्र । एतेषु दर्भाग्रद्वयप्रत्यसने विकल्पो व्रीहियववत् । यवाग्वां तु पूर्वं प्रतिषेकः पश्चादवेक्षणम् 'प्रतिषेकं यवागूं श्रपयति' इति सूत्रव्याख्यावसरे वैजयन्तीकारोक्तेः । एवमेवौदने । यवागूशब्देन शिथिल ओदन उच्यते । तण्डुलवद्यवगोधूमप्रियंगुव्रीहितिलेषु । तैले दर्भाग्रद्वयप्रत्यसने विकल्पः । आज्ये तु दर्भाग्रद्वयप्रत्यसनं नियतमिति द्रष्टव्यम् । स्वस्यासामर्थ्येऽस्मिन्नौपासनहोम ऋत्विजं त्वामहं वृण इति होमार्थमृत्विजं वृत्वा तेन कारयेत् । त्यागस्तु स्वकर्तृक एव पत्न्या वा । पत्न्या अनधिकारे तु तदनुज्ञाभावेऽप्यृत्विजो वेति द्रष्टव्यम् । अत्र मध्ये प्रायश्चित्तहोमः पतति चेत्तदा होमस्थाने होममन्त्रजप एव । अनाज्यवति कर्मणि जपः । आज्यवति होम इति व्याख्या-



  1. धनुश्चिह्नान्तर्गतं क. ख. पुस्तकयोरेव ।