पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६३

पुटमेतत् सुपुष्टितम्
[अग्निनामानि]
५९
संस्काररत्नमाला ।
(अग्निस्थापनमन्त्रः)
 

गोदाने सूर्यनामाऽग्निर्विवाहे योजकः स्मृतः ।
चतुर्थ्यां तु शिखी[१] प्रोक्तो धृतिरग्निरथापि वा ।
आवसथ्ये द्विजो ज्ञेयो वैश्वदेवे तु रुक्मकः ।
प्रायश्चित्ते तु विट्चैव पाकयज्ञेषु पावकः ।
देवानां हव्यवाहश्च पितॄणां कव्यवाह[२]नः ।
शान्तिके वरदः प्रोक्तः पौष्टिके बलवर्धनः ।
पूर्णाहुत्यामिडो नाम क्रोधोऽग्निश्चाऽऽभिचारिके
वश्यार्थे कामदो नाम वनदाहे तु दूषकः ।
कुक्षौ तु जाठरो ज्ञेयः क्रव्यादो मृतदाहने ।
वह्निनामा लक्षहोमे कोटिहोमे हुताशनः ।
समुद्रे वाडवो ह्यग्निः क्षये संवर्तकस्तथा ।
ब्रह्मा वै गार्हपत्यस्तु ईश्वरो दक्षिणस्तथा ।
विष्णुराहवनीयस्तु अग्निहोत्रे त्रयोऽग्नयः ।
ज्ञात्वैवमग्निनामानि गृह्यकर्म समारभेत्" इति ॥

 यद्यप्येतद्वचनस्य नामज्ञानमात्रपरतैवावगम्यते तथाऽपि--

"तत्तन्नाम्ना हविर्भुजं स्थापयेत्" ।

 इति संग्रहादिवचने नामाकाङ्क्षापूरणस्याऽऽवश्यकत्वादाकाङ्क्षापूरकस्य शास्त्रान्तरस्य चाभावादेतस्य तदर्थताऽपि द्रष्टव्या । स्थापनं तु प्रणवान्ताभिर्व्याहृतिभिः कार्यम् ।

 पुनराधेये--"भूर्भुवः सुवरो[३]मित्यग्निं प्रतिष्ठाप्य" इति दर्शनात् । "भूर्भुवः सुवरो[४]मित्याग्निं प्रतिष्ठापयति" इति भरद्वाजोक्तेश्च । एतच्च प्रणवान्तत्वमुदाहृतस्मृतिसारवक्ष्यमाणबौधायनवचनोक्तकेवलव्याहृतिविधानेन विकल्प(ल्प्य)ते । उद्धननाद्यग्निप्रतिष्ठापनान्तं यत्र यत्र "अग्निमुपसमाधाय" इति सूत्रकृद्वदति तत्र । यत्र न वदति तत्र[५] स्वस्थानेऽवस्थिते परिस्तरणादिविधिनैव का[६]र्यम् । अग्निप्रज्वलनमुपसमाधानं सिद्धानुवादमेके मन्यन्ते तेषामौपास[७]ने कर्तव्यानां समिन्धनादि, इतरत्रोद्धननादीति द्रष्टव्यम् । एतन्मतमेव युक्तम् "दक्षिणाग्निमुपसमाधाय"


  1. ख. खी नाम धृ ।
  2. ड. हकः । शा ।
  3. ड. रोमग्निं ।
  4. ग. ङ. रोमग्निं ।
  5. ग. त्र स्था ।
  6. ङ. कार्यः ।
  7. क. सनक ।