पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६३०

पुटमेतत् सुपुष्टितम्
६२२
भट्टगोपीनाथदीक्षितविरचिता-- [पक्षहोमः]
( आलस्यादिना समस्यहोमकरणे प्रत्यवायः )
 

 अग्निहोत्राणामित्यनेनाग्निहोत्रहोमतुल्यत्वादौपासनहोमानामपि ग्रहणम् ।

 'य आहिताग्नेर्धर्मः स्यात्स औपासनिकस्य तु' इत्युक्तेः । अशेषान्पक्षत्यादीन्पक्षान्तावधिकान् । शेषान्यत्किंचित्पूर्वावधिकान् ।

 यत्तु--

"तृतीयायां चतुर्थ्यां वा पञ्चम्यां वा परत्र च ।
तदादीनां तदन्तानां होमानां शेषसंज्ञिता" ॥

 इति त्रिकाण्डीवचनात्तृतीयाया एवं पूर्वावधित्वं न तु द्वितीयाया इति वदन्ति तत्पामरप्रतारणमात्रम् । एतस्य वचनस्य त्रिकाण्ड्यामनुपलम्भात् ।

 मरीचिः--

"शरीरापद्भवेद्यत्र भयार्तश्च प्रजायते ।
यथाऽन्यास्वपि चाऽऽपत्सु पक्षहोमो विधीयते ॥
हुतेषु पक्षहोमेषु मध्ये तस्मान्निवर्तते ।
होमं पुनः प्रकुर्याच्चेन्न चासौ दोषकृद्भवेत्" इति ॥

 चेदित्यनेन विकल्पः सूच्यते । पक्षहोमग्रहणं शेषहोमोपलक्षणमित्याचाररत्ने ।

बौधायनोऽपि--

"अथाऽऽपद्यग्निहोत्राणां समासो राष्ट्रविभ्रमे व्याधिपीडा-
यामध्वगमनप्रसङ्गे गुरुकुलवासापेक्षायां मातृपितृकलत्रपुत्रा-
द्यत्यये बलवतो निरोधादौ देशकालद्रव्यानुपपत्तौ चात्य-
न्तापत्सु" इति ।

 अग्निहोत्राणामग्निहोत्रसंबन्धिनां होमानाम् । राष्ट्रविभ्रमो राष्ट्रविक्षोभः । विशिष्ट आधिर्व्याधिर्मानसं दुःखं, पीडा बाह्यं दुखम् । अत्ययो नाशः । बलवतो निरोधो बलवत्कर्तृको निरोधः । बलवति निरोधादावितिपाठे बलवत्त्वविशेषणं निरोधादीनां द्रष्टव्यम् ।

 मण्डनोऽपि-- "आपदेवावधिस्तत्र न पक्षगणनावधिः" इति ।

 आलस्यादिना समस्यहोमे दोषमाह गोपालः--

"नैतज्जामितया कार्यं न रागान्न च लोभतः ।
नैतच्छक्तिं दधानस्तु कुर्याच्छ्रद्धालुरापदि ॥
अनापद्याचरन्निष्ट्या तन्तुमत्या यजेत सः" इति ।

 जामिताऽऽलस्यम् । शक्तिमाञ्जामितया रागेण लोभेन वा नैतत्समस्यहोमविधिमनुतिष्ठेत् । आपदि त्वनुतिष्ठेदेव । अनापदि यद्यनुतिष्ठेत्तदा तन्तुमत्येष्ट्या यजेदित्यर्थः ।