पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६३२

पुटमेतत् सुपुष्टितम्
६२४
भट्टगोपीनाथदीक्षितविरचिता-- [औपासनहोमः]
( पक्षहोमप्रयोगः )
 

आपन्निमित्तं द्वितीयाप्रातःकालमारभ्यामुकपर्वप्रातःकालपर्यन्तममुकसंख्याकान्प्रातरौपासनहोमांस्तन्त्रेण व्रीहिभिर्यवैर्वा होष्यामीति प्रातः । भिन्नसंकल्पपक्षे तत्रेदानीमित्यन्तं नास्ति । शेषहोमविधौ तु अमुकदिनसायंकालमारभ्य चतुर्दशीसायंकालपर्यन्तममुकसंख्यान्सायमौपासनहोमांस्तन्त्रेण व्रीहिभिर्यवैर्वा होष्यामीति सायम् । अमुकदिनप्रातःकालमारभ्यामुकपर्वप्रातःकालपर्यन्तममुकसंख्याकान्प्रातरौपासनहोमांस्तन्त्रेण व्रीहिभिर्यवैर्वा होष्यामीति प्रातः । अथवाऽऽरभ्येत्यन्तं न कुत्रापि वदेत् । यदा तु केनचिन्निमित्तेन भाविपर्वण्यन्वाधानाभावनिश्चयस्तदा तत्सायंहोमस्यापि पूर्वैः सह समास इति केचित् । एवमप्यापत्तिर्न गच्छेच्चेत्पुनः पक्षान्तरेऽपि तथैव कुर्यात् । तृतीये पक्ष आपत्तौ सत्यामपि न पक्षहोमसमासः । किंतु शेषहोमसमास एव । एवं शेषसमस्ययोरपि । यदि कदाचित्पक्ष[१]होमद्वयानन्तरमत्यावश्यकतया गमनप्रसक्तिस्तदा द्व्याहिकत्र्याहिकसमस्यहोमौ प्रतिपद्दिने कृत्वा ग्रामान्तरं गत्वा शेषहोमाः कार्या इति केचित् । यदि सायंपक्षहोमानन्तरमेव शेषहोमानन्तरमेव वा तस्यामेव रात्रौ प्रातःकालादर्वागेव महदा(हा)पत्तिस्तदा तत्काल एव निमीलनेन दिनव्यवधानं भावयित्वाऽग्नीन्पुनः प्रातःकालवद्विहृत्य प्रातर्होमाः समस्य कार्याः । सायं महत्यापत्तिश्चेत्सायमेव कालद्वयहोमान्कुर्यात् । महदा(हा)पत्तिनिमित्तममुकदिनसायंकालमारभ्य चतुर्दशीसायंकालपर्यन्तममुकसंख्याकान्सायंहोमानमुकदिनप्रातःकालमारभ्यामुकपर्वप्रातःकालपर्यन्तममुकसंख्याकान्प्रातर्होमांश्च सायमेव समासेनामुकद्रव्येण होष्यामीति संकल्प्य यथोक्तविधिपूर्वकं सायंकालिकमाहुतिद्वयं हुत्वा कंचित्कालं विरम्य निमील्यानन्तरमेव प्रातःकालिकमाहुतिद्वयं होतव्यम् । अग्नेर्देवतात्वपक्षे संप्रतिपन्नदेवताकत्वेऽपि निमीलनधर्मेण व्यवधानात्पृथगेवाऽऽहुतिद्वयम् । प्रातर्महत्यामापत्तौ तु महदा(हा)पत्तिनिमित्तममुकप्रातःकालपर्यन्तममुकसंख्याकान्प्रार्होमानमुकदिनसायंकालमारभ्य चतुर्दशीसायंकालपर्यन्तममुकसंख्याकान्सायंहोमांश्च प्रातरेव समासेनामुकद्रव्येण होष्यामीति संकल्प्य यथोक्तविधिपूर्वकं प्रात:कालिकमाहुतिद्वयं पूर्वं हुत्वा कंचित्कालं विरम्य सायंकालिकमाहुतिद्वयं होतव्यम् । अत्रापि विरामे[२]ण व्यवधानात्पृथगेव प्रातराहुतिद्वयम् । यदा तु दीर्घकाल महत्तरापत्तिसंभावना तदा यावज्जीवमविच्छिन्नान्पक्षहोमान्कुर्यात् । सर्वत्राऽऽपत्त्यवसानमेवावधिर्न पक्षगणनावधिः । पक्षहोमे शेषहोमे वा कृते यद्यन्तराल आपन्निवर्तेत तदा प्राग्घुतानां वैकल्पिकी कर्तव्यता ।



  1. ङ. घ. क्षद्वयहोमान ।
  2. क. ङ. च. मेऽप्यव । ख. ग. मेऽप्यव्य ।