पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६३३

पुटमेतत् सुपुष्टितम्
[पार्वणस्थालीपाकः]
६२५
संस्काररत्नमाला
( पर्वनिर्णयः )
 

पक्षहोमादौ कृते सत्युदयास्तमययोः प्रादुष्करणाभावेऽपि न प्रायश्चित्तं तस्य होमार्थत्वादिति वृद्धाः ।

इति संस्काररत्नमालायामौपासनहोमपक्षहोमशेषहोमप्रयोगः ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालायां
त्रयोदशं प्रकरणम् ॥ १३ ॥

अथ चतुर्दशं प्रकरणम् ।

अथ पार्वणस्थालीपाकं वक्तुमादौ पर्वनिर्णय उच्यते ।

 तत्र तयोः क्रमः श्रौतसूत्रे--'पूर्वा पौर्णमास्युत्तराऽमावास्या' इति ।

 सर्वत्र दर्शपूर्णमासौ निर्दिष्टौ दर्शपूर्वौ, तत्र पाठक्रमेणैवोभयोरनुष्ठाने प्राप्त इदं सूत्रमारभ्यते । 'अल्पाच्तरम्' इति दर्शशब्दस्य पूर्वनिपातेऽपि पूर्वा पौर्णमास्येवेत्यर्थः । श्रुतावप्यारम्भणीयाप्रकरणे सारस्वतहोमार्थवादे 'य एनयोरनुलोमं च' इत्यादिना 'तत्प्रतिलोमम्' इत्यन्तेनानुलोमप्रतिलोमयोः स्वरूपं प्रदर्श्य 'यत्पौर्णमासीं पूर्वामालभेत प्रतिलोममेनावालभेत' इत्यादिना पूर्णमासस्य पूर्वा[न]नुष्ठाने दोषमभिधाय तद्दोषपरिहाराय सारस्वतहोमविधिरिति कृत्वा पूर्वा पौर्णमास्युत्तराऽमावास्येत्येव क्रमः प्रदर्शितः । अत्रानुमन्त्रणसूक्तवाकदेवतायाज्यादीनि बहूनि लिङ्गान्यपि । पार्वणस्थालीपाकयोरप्येवमेव ।

 तदुक्तं शौनकबौधायनाभ्याम्--

"पौर्णमासी तु संप्राप्ता या विवाहादनन्तरम् ।
तदोपक्रम्य कुर्वीत स्थालीपाकं तु पर्वसु ।
तत्र यद्यप्यमावास्या विवाहानन्तरं पतेत् ।
तथाऽपि पौर्णमास्यादिस्थालीपाकक्रिया स्मृता" इति ।

 स्मृत्यन्तरमपि--

"चतुर्थीहोमतः पूर्वं प्राप्यते यदि पूर्णिमा ।
तत्रैव यागः कर्तव्यो ह्यन्वाधानपुरःसरः" इति ।

 तत्र विवाहहोमानन्तरं स्थालीपाकारम्भात्पूर्वमधिमासादिकं चेत्तत्रापि


७९