पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६३५

पुटमेतत् सुपुष्टितम्
[पार्वणस्थालीपाकः]
६२७
संस्काररत्नमाला
( पर्वनिर्णयः, राकाकुह्वनुमतिसिनीवालीनां लक्षणानि )
 

 अमावास्यानिर्वचनं मत्स्यवायुब्रह्माण्डपुराणेषु--

"अमा वसेतामृक्षेषु यदा चन्द्रदिवाकरौ ।
एषा पञ्चदशी रात्रिरमावास्या ततस्तु सा" इति ॥

 अमा सहेत्यर्थः ।

 श्रुतौ तु निर्वचनान्तरमुक्तम्--

"अमा वै नोऽद्य वसु वसतीतीन्द्रो हि देवानां
वसु तदमावास्याया अमावास्यत्वम्" इति ।

 ते च पौर्णमास्यमावास्ये प्रत्येकं द्विविधे अनुमती राका च सिनीवाली कहूश्चेति ।

 एतत्स्वरूपं कठशाखायामैतरेयब्राह्मणे च--

"या पूर्वा पौर्णमासी साऽनुमतिर्योत्तरा सा राका या
पूर्वाऽमावास्या सा सिनीवाली योत्तरा सा कुहूः" इति ।

 एतासां लक्षणमुक्तं बृहद्वसिष्ठेन--

"राका संपूर्णचन्द्रा स्यात्कलोनाऽनुमतिः स्मृता ।
पौर्णमासी दिवा दृष्टे शशिन्यनुमतिः स्मृता ॥
रात्रिदृष्टे पुनस्तस्मिन्सैव राकेति कीर्तिता ।
दृष्टचन्द्राममावास्यां सिनीवालीं प्रचक्षते ॥
एतामेव कुहूमाहुर्नष्टचन्द्रां महर्षयः" इति ॥

 तत्र कुहूभिन्नानां तिसृणां लघ्वक्षरोच्चारणपरिमितः कालः संधिरित्युच्यते । कुह्वास्त्वक्षरद्वयपरिमितः ।

 तथा च हेमाद्रौ भगवतीपुराणम्--

"अनुमत्याश्च राकायाः सिनीवाल्याः कुहूं विना ।
एतासां द्विलवः कालः कुहूमात्रा कुहूः स्मृता" इति ॥

 लवस्वरूपं माधवीये स्मृत्यन्तरे--

"लघ्वक्षरचतुर्भागस्त्रुटिरित्यभिधीयते ।
त्रुटिद्वयं लवः प्रोक्तो निमेषस्तु लवद्वयम्" इति ॥

 तथा च लवद्वयं लघ्वक्षरं भवति । लघ्वक्षरोच्चारणपरिमिते काल एकः पर्वणो भागो द्वितीयः प्रतिपदस्तदुभयं मिलितं संधिर्भवति । कुहूप्रतिपदोः संधिस्तु 'कुहू' इत्यक्षरद्वयपरिमितः ।