र्तनादूर्ध्वं संधौ तु तस्मिन्नहन्यन्वाधानादि परेद्युर्याग इति निष्कृष्टोऽर्थः । आवर्तनशब्देनाङ्गो मध्यतनसंधिरूपः काल उच्यते ।
"आवर्तनात्तु पूर्वाह्णो ह्यपराह्णस्ततः परः । |
इति मदनरत्नोदाहृतवचनात् ।
तयोः पूर्वाह्णापराह्णयोः । स च संधिर्मुहूर्तपरिमित इति केचित् । निशीथन्यायेनेत्येतेषामाशयः ।
श्रौतसूत्रेऽपि पर्वनिर्णय उक्तः--
"पूर्वां पौर्णमासीमुपवसेत्संपूर्णां वा पूर्वाममावास्यां यदहर्वा न दृश्यते" इति । |
अर्थतस्य सूत्रस्य स्मृतिपर्वनिर्णयानुरोधेनार्थो वर्ण्यते । पूर्वां चतुर्दशीयुक्तामुपवसेद्यदि परेद्युरसंपूर्णेत्यग्रिमसूत्रपर्यालोचनयाऽर्थात्सिध्यति । संपूर्णां वेति । यस्याः साम्येन विहितया प्रतिपदा संयुक्तामित्यर्थात्स्यात् । द्वेधा विभक्तस्य दिवसस्य प्रथमार्धव्यापित्वेन स्थितामित्यर्थः । तथाचा(च) संपूर्णा चेत्परा । इतरथा पूर्वेत्यर्थादवगम्यते । अत्रैवावान्तरभेदेन सद्यस्कालो ज्ञेयः । एवं पूर्वाममावास्यामित्यत्रापि समानम् । यदहर्वा न दृश्यत इत्यत्रापि पू[१]र्वयुक्ता यस्मिन्दिने [न] दृश्यतेऽमावास्या तत्र संपूर्णाममावास्यामित्याकृष्य योज्यं पूर्ववत् । अत्रोपवासशब्देन नाशनाभावः । दंपती अश्नीत इत्यनेन विरोधात् । किंतूपवासशब्देन जायापत्योरेकवारं भोजनमुच्यते । धर्मे वक्ष्यमाणत्वात् ।
अथवा--
"उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह । |
इति स्मृतिसिद्ध उपवासशब्दार्थो ग्राह्य इति वैजयन्तीकृता व्याख्यातम् ।
तत्र 'पर्वणो यश्चतुर्थांशः' इत्यनेन वचनेन पर्वणश्चतुर्थोंऽशः प्रतिपदस्त्रयोंऽशाश्च यागकालत्वेन विहिताः । तत्र यद्यावर्तने ततः पुरा वा संधिर्भवति तदा पर्वणश्चतुर्थांशो यागकालः । उषःकाले संधौ प्रतिपदः प्रथमांशो यागकालः। निशीथसंधौ द्वितीयांशः, रात्रिप्रारम्भे संधौ तृतीयांश इति ।
नन्वनेन न्यायेनापराह्णे संधौ प्रतिपच्चतुर्थांशस्यापि यागकालत्वं स्यादिति चेन्न ।
"न यष्टव्यं चतुर्थेंऽशे यागैः प्रतिपदः क्वचित् । |
- ↑ क. ग. पूर्वायु ।