इति चतुर्थांशे यागस्य निषेधात् । एतादृशे विषये याग एव लुप्येतेति चेन्मैवम् ।
वृद्धशातातपेन प्रतिप्रसवाभिधानात्--
"संधिर्यत्रापराह्णे स्याद्यागं प्रातः परेऽहनि । |
एवं तर्हि प्रतिषेधो निर्विषयः स्यादिति चेन्मैवम् । सघस्कालविषये चरितार्थत्वात् ।
तं च विषयं दर्शयति कात्यायनः--
"संधिश्चेत्संगवादूर्ध्वं प्राक्पर्यावर्तनाद्रवेः । |
संगवावर्तनयोरन्तरा पौर्णमासीप्रतिपदोः संधौ सति पूर्वोदाहृतैर्वचनैः संधिदिनात्पूर्वेद्युरन्वाधानादिकं प्राप्तं तच्च सद्यस्कालवाक्येन संधिदिन उत्कृष्यते । 'सद्यो वा सर्वं करोति सद्यस्कालायाम्' इत्येतत्सूत्रमप्यत्रानुकूलं ज्ञेयम् । वैजयन्तीकारैस्तथैव व्याख्यानात् । तत्र सद्यस्कालविधिरन्वयरूपः । प्रतिपच्चतुर्थांशनिषेधो व्यतिरेकरूपः । एवं च सति निषेधवाक्यं सावकाशं भवति । अयमेव न्यायोऽमावास्यायामपि । परं तु सद्यस्कालता तत्र नास्ति । संधिश्चेदित्यस्मिन्वाक्ये पौर्णमास्या एव ग्रहणात् । चन्द्रदर्शनदिने यागनिषेधस्त्वावर्तनात्पूर्वं तस्मिन्वा संधौ सति द्रष्टव्यः । एतच्च यथाश्रुतमाधवग्रंथाद्वैजयन्तीकारग्रन्थाच्च द्रष्टव्यम् । हेमाद्रिस्तु--"अपराह्णसंधावपि परदिने प्रतिपच्चतुर्थांशे चन्द्रोदये च सति द्वितीयादिष्वत्यन्तक्षये सति पूर्वेद्युर्यागः" इत्याह । आवर्तने तत्पूर्वं वा संधौ भ्रमाद्यदि यागो न कृतः किंतु शुक्लप्रतिपदि कृतस्तदा प्रायश्चित्तमाह कात्यायनः--
"यजनीयेऽह्नि सोमश्चेद्वारुण्यां यदि दृश्यते । |
संधिकल्पनप्रकारस्तु माधवेनोक्तः--
"वृद्धिः प्रतिपदो याऽस्ति तदर्धं पर्वणि क्षिपेत् । |
कात्यायनोऽपि--
"परेह्नि घटिका न्यूनास्तथैवाभ्यधिकाश्च याः । |