पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६४२

पुटमेतत् सुपुष्टितम्
६३४
भट्टगोपीनाथदीक्षितविरचिता-- [पार्वणस्थालीपाकः]
( व्रतस्थस्य वर्ज्यावर्ज्यानि )
 

 सूत्रे--"पौर्णमास्यां प्रातराशे जायापती सर्पिर्मिश्रमश्नीतो यदन्यन्मा-

षेभ्यश्च न सुहितौ स्यातां प्राग्वत्सापाकरणादमावास्यायां
कामं सुहितौ स्याताम्" इति ।

 सुहितौ तृप्तौ । पौर्णमास्यां न सुहितौ स्याताममावास्यायां तु सुहितावपि स्यातामितीत्थं यो विशेषः स न स्थालीपाके । तृप्तिश्चान्नस्येत्यविशेषेणोक्तत्वात् । सर्पिर्मिश्रितमेवाशनं कर्तुमशक्तेन दधिमिश्रितं वाऽप्यशितव्यम् । दध्ना पयसा वेत्यापस्तम्बवचनात् । अयं च रागप्राप्त एव नित्येऽशने सर्पिरादिनियमः क्रत्वर्थो विधीयते । अशनं तु पुरुषार्थमेव । तेनासामर्थ्यादिना यद्यशनं कर्तुं न शक्यते तदा नियमानुग्रहार्थमशनं न कर्तव्यमिति पितृभूतिः ।

 भर्तृस्वाम्यप्याह--

"अशनं क्षुत्प्रतिघातार्थं, तस्यास्मिन्काले नियमः सत्यामिच्छायामतो
नाऽऽवर्तत इष्टिबहुत्वे" इति ।

 बह्वीनां पत्नीनाममुख्याऽनालम्भुका चेत्तदा यागः कर्तव्य एव । ज्येष्ठा चेदनालम्भुका तदा न यागः कर्तव्यः ।

 तदुक्तं हेमाद्रौ गौतमेन--

"यजनीयेऽह्नि संप्राप्ते यस्य भार्या रजस्वला ।
यागं तत्र प्रकुर्वीत ज्येष्ठा चैन्नेवमाचरेत्" इति ॥

वसिष्ठोऽपि--

"बह्वीनामपि पत्नीनां ज्येष्ठा चेद्रजसाऽन्विता ।
नापरुध्य प्रकुर्वीत यजनं हि विचक्षणः" इति ।

 कनिष्ठामपरुध्य यागः कर्तव्य इति त्वर्थात्सिद्धं भवति ।

 अस्ति च पाद्मं वचनम्--

"बह्वीनामेकपत्नीनां कनिष्ठा रजसाऽन्विता ।
अपरुध्यापि कुर्वीत यजनं विधिपूर्वकम्" इति ॥

 ज्येष्ठातोऽन्याः सर्वा अपि कनिष्ठशब्देन ग्राह्याः । न त्वन्तिमैव ।

अत एव--

"बह्वीनामपि पत्नीनाममुख्या रजसान्विता ।
अपरुध्यापि कुर्वीत यजनं विधिपूर्वकम्" ॥

 इति स्मृत्यन्तरेऽमुख्येत्युक्तम् ।

 ज्येष्ठपत्न्या मुख्यत्वं तु पाद्म उक्तम्--

"ज्येष्ठा पत्नी तु मुख्या स्याद्यज्ञे दानेऽर्चने गृहे ।
तथा कर्माणि कुर्वस्तु यथोक्तफलभाग्भवेत्" इति ॥