पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६४३

पुटमेतत् सुपुष्टितम्
[पार्वणस्थालीपाकः]
६३५
संस्काररत्नमाला
( पार्वणस्थालीपाकप्रयोगः )
 

 कौर्मेऽपि--

"ज्येष्ठपत्न्या विरहितं कृतं यत्तु जनाधिप ।
तत्सर्वं विफलं याति गजभुक्तकपित्थवत्" इति ॥

वसिष्ठोऽपि--

"ज्येष्ठया सह कर्माणि कुर्याद्यत्नेन भूपते ।
तया सह कृतं कर्म सफलं जायते नृणाम्" इति ।

 ज्येष्ठपत्न्या राहित्येन कर्मकरणे यो दोष उक्तः स तस्या विद्यमानत्वे द्रष्टव्यः । ज्येष्ठायां मृतायां विद्यमानासु या ज्येष्ठा सा मुख्यत्वेन द्रष्टव्या । एवं च विद्यमानज्येष्ठाव्यतिरिक्ताः पत्नीरपरुध्यापि यागः कर्तव्य इति सिद्धं भवति । एतेन बह्वीनां पत्नीनामेकाऽप्यृतुमती चेन्न यागः कार्य इति परास्तम् ।

 एतच्च प्रथमप्रयोगव्यतिरिक्ते--

"प्रक्रान्तमग्निहोत्रादि कर्म यच्छ्रुतिचोदितम् ।
आर्तवाभिप्लुतां नारीं विहाय कुरुते द्विजः"

 इति कात्यायनवचने प्रक्रान्तमिति श्रवणात् ।

"ज्येष्ठा वाऽथ कनिष्ठा वा पत्नी यदि रजस्वला ।
प्रथमे चेत्प्रयोगे स्या[१]न्नोपरोधस्तदा मतः"

 इति स्मृत्यन्तरेऽभिधानाच्च ।

 प्रक्रान्तमारब्धमेकवारमनुष्ठितमिति व्याख्यातारः । ये तु प्रारब्धं संकल्पादिना प्रक्रान्तमित्यर्थं वदन्ति तन्मते संकल्पोत्तरं प्रथमप्रयोगेऽप्युपरोध इति द्रष्टव्यम् ।

अथ प्रयोगः ।

 कर्ता शुक्लचतुर्दश्यां प्रातरौपासनहोमानन्तरमौपासनाग्नेः पश्चात्सपत्नीक उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य सत्यधिकारे यावज्जीवं दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्य इति संकल्पं कुर्यात् । दर्शपूर्णमासेष्ट्यारम्भोत्तरं न पार्वणस्थालीपाकावित्येतन्मतमेव स्त्री क्रियत इति निश्चिते सति सत्यधिकारे दर्शपूर्णमासेष्ट्यारम्भपूर्वतनकालपर्यन्तं दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्य इति संकल्पे विशेषः ।

 ततो गणपतिपूजनादिनान्दीश्राद्धान्तं कुर्यात् । अत्राग्निः प्रीयतामिति विशेषः । अथवा प्रधानसंकल्पात्पूर्वमेव गणपतिपूजनपुण्याहादिवाचनमातृकापूजननान्दीश्राद्धानि कृत्वाऽनन्तरं प्रधानसंकल्पः कार्यः ।

 तत आरम्भार्थं चतुर्होतृसारस्वतहोमावन्वारम्भणस्थालीपाकं च कुर्यात् ।



  1. ग. स्यान्नाप ।