पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६४५

पुटमेतत् सुपुष्टितम्
[पार्वणस्थालीपाकः]
६३७
संस्काररत्नमाला
( अन्वारम्भणस्थालीपाकप्रयोगः )
 

संकल्प्याग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वाऽन्वारम्भणस्थालीपाककर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । अग्नाविष्णू एकया चर्वाहुत्या यक्ष्ये । सरस्वतीमेकया चर्वाहुत्या यक्ष्ये । सरस्वन्तमेकया चर्वाहुत्या यक्ष्ये । अग्निं भगिनमेकया चर्वाहुत्या यक्ष्ये । वैशेषिकजयोपहोमे--चित्तं चित्तिमित्यादि प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्यन्तमुक्त्वा, स्विष्टकृद्धोमे--अग्निं स्वीष्टकृतं हुतशेषेण यक्ष्य इत्यादि समिदभ्याधानान्तं कृत्वाऽग्निं परिस्तीर्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु स्रुवं दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं हविरासादनार्थान्दर्भाञ्शूर्पं कृष्णाजिनमुलूखलं मुसलं चरुस्थालीचतुष्टयं मेक्षणचतुष्टयं संमार्गदर्भानवज्वलनदर्भानाज्यं समिधं चाऽऽसादयेत् ।

 "समोप्य व्युद्धारं जुहुयात्" इत्याश्वलायनसूत्राच्छूलगवे चरुत्रयस्य पयसि स्थालीपाकं श्रपयित्वेत्येकत्रैव श्रपणदर्शनाच्चैकैव वा चरुस्थाली, एकमेव मेक्षणमुद्धरणार्थं पात्रचतुष्टयमेकमेव वा महदिति पात्रासादने विशेषः ।

 ततोऽग्नेः पश्चात्स्वस्य पुरतः शूर्पं निधाय तस्मिन्पवित्रे संस्थाप्य दक्षिणहस्तेन प्रतिदैवतं तूष्णीं चतुरश्चतुरो मुष्टींस्तां तां देवतामभिध्यायन्निरुप्यान्वावापं कृत्वाऽग्नेरुत्तरतो हविः संस्थाप्य प्रोक्षणीः संस्कृत्य पवित्रेण पाणिना हविस्त्रिः प्रोक्ष्य पात्राण्युत्तानानि कृत्वा त्रिः सर्वाभिः प्रोक्षति ।

 तत पत्न्यग्नेरुत्तरतः कृष्णाजिनावधूननादि फलीकरणान्तमाग्नेयस्थालीपाकवत्कुयात् ।

 ततो होमकर्ता निरुप्तहविषः समं भागचतुष्टयं कृत्वाऽयमग्नाविष्णुभ्यामयं सरस्वत्यै, अयं सरस्वतेऽयमग्नये भगिने, इति क्रमेणाभिमृश्य चतसृषु स्थालीषूदकमानीय तत्र क्रमेण भागचतुष्टयमोप्याग्नौ स्थालीरधिश्रयति । यद्येकैव स्थाल्यासादिता स्यात्तदा तस्यामेव श्रपणपर्याप्तमुदकमानीय सर्वं हविस्तस्यामोप्याग्नावधिश्रयति । न वा निर्वापादि किंतु पत्न्याऽवघातमात्रं कारणीयम् । पर्यग्निकरणं तु कर्तव्यमेवेति पक्षान्तरम् ।

 ततः स्रुवं दर्वीं मेक्षणं च संमृज्याऽऽज्यसंस्कारं कुर्यात् । तत्र हविवा सहाऽऽज्यस्य पर्यग्निकरणमिति विशेषः ।

 [१]त आसादितान्दर्भानग्नेः पश्चादास्तीर्य तत्राऽऽज्यं निधाय शृतांश्चरून्क्रमेणाभिघार्योत्तरत उद्वा[२]स्याग्नेः पश्चादुदक्संस्थं बर्हिष्यासादयति । एकत्र



  1. ख. ग. ङ. च. ततः शृ ।
  2. ख. ग. ङ. च. द्वास्योद ।