पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६४८

पुटमेतत् सुपुष्टितम्
६४०
भट्टगोपीनाथदीक्षितविरचिता-- [पार्वणस्थालीपाकः]
( पार्वणस्थालीपाकयोः प्रयोगः )
 

कृष्णाजिनमुलूखलं मुसलं चरुस्थालीं मेक्षणमुपवेषं हविरासादनार्थं दर्भान्संमार्गदर्भानवज्वलनदर्भानाज्यं समिधमित्यासाद्य पवित्रे कृत्वाऽपरेणाग्निं शूर्पं निधाय तस्मिन्पवित्रे निधाय तूष्णीं चतुरो मुष्टीन्निरुप्योत्तरेणाग्निं व्रीहिमच्छूर्पं निधाय प्रोक्षणीः संस्कृत्य शूर्पस्थान्व्रीहीन्प्रोक्ष्य पात्राण्युत्तानानि कृत्वा प्रोक्षति ।

 ततः पत्न्यग्नेरुत्तरतः कृष्णाजिनं बहिर्विशसनं त्रिरवधूय प्रत्यग्ग्रीवमुपरिष्टाल्लोम तदास्तीर्य तस्य भसत्प्रदेशमुपसमस्य तत्रोलूखलं संस्थाप्य तस्मिन्व्रीहीनोप्याऽऽसीनैव मुसलेनावहत्योलूखलस्य पुरस्ताच्छूर्पं निधायोलूखलस्थांस्तण्डुलाञ्छूर्पे निक्षिप्य कृष्णाजिनस्योत्तरतस्त्रिर्निष्पूय तुषान्प्रध्वंसयित्वा (स्य) तांस्तुषान्दक्षिणहस्तेन कृष्णाजिनस्याधस्तान्निक्षिपत्यनिरीक्षन्( माणा )। ततो दक्षिणहस्तेनैव निक्षिप्तांस्तुषान्निपीड्याप उपस्पृश्य तण्डुलान्विविच्य प्रस्कन्दनार्थ आसादिते पात्रे प्रस्कन्दयित्वा(न्द्य) तानादायोलूखले प्रक्षिप्य त्रिष्फलीकृत्य फलीकरणानि कृष्णाजिनस्योत्तरतो निक्षिप्य तण्डुलान्प्रक्षाल्याग्नेः पश्चात्प्रक्षालनोदकं निनयति ।

 ततः क[१] र्ता प्रक्षालितांस्तण्डुलांश्चरुस्थाल्यामोप्य मेक्षणेनाऽऽलोड्य श्रपयित्वा दर्वीं मेक्षणं च संमृज्याऽऽज्यविलापनादि पवित्राभ्याधानान्तं कुर्यात् । तत्राऽऽज्येन सह चरोरपि पर्यग्निकरणम् ।

 तत आसादितान्दर्भानग्नेः पश्चादास्तीर्य तत्राऽऽज्यं निधाय शृतं चरुं दर्व्याऽऽज्येनाभिघार्योदगुद्वास्याग्नेः पश्चादास्तृते बहिष्याज्यस्योत्तरत आसाद्याग्निं परिषिञ्चेत् । अथवा पात्रासादनान्ते कृष्णाजिनमास्तीर्यानास्तीर्य वा पत्न्याऽवहननमात्रं कारयित्वा त्रिष्फलीकृत्य फलीकरणान्युत्तरतो निरस्येत् ।

 ततो दर्वीसंमार्गादि पवित्राभ्याधानान्तं दर्भास्तरणपक्षे तदपि कृत्वा शृतं चरुं दर्व्याऽऽज्येनाभिघार्योदगुद्वास्याग्नेः पश्चाद्दर्भेषु दर्भास्तरणाभावपक्षे भूमावेव निधायाग्निं परिषिञ्चेत् । एतत्प्रयोगद्वयं सर्वेषु स्थालीपाकेषु ज्ञेयम् ।

 ततस्तूष्णीं सादितां समिधमाधाय मेक्षणेनोपहत्य प्रदीप्तेऽग्नौ जुहोति । 'ॐ अग्नये स्वाहा' इति भार्यान्वारब्धो जुहोति । अग्नय इदं न मम । पुनर्भूय उपहत्य, 'ॐ अग्नये स्विष्टकृते स्वाहा' इति भार्यान्वारब्धोऽसंसक्तां पूर्वाहुत्यो



  1. ख. ग. ङ. च. ता स्वयमेव व्रीहीन्प्रक्षाल्य चरु ।