पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६५

पुटमेतत् सुपुष्टितम्
[अग्निप्रबोधने वर्ज्यानि]
६१
संस्काररत्नमाला ।
(अग्नध्यानावश्यकता)
 

 अत्र वार्ज्या[]न्याह देवलः--

"वस्त्रेण वाऽथ पर्णेन पाणिशूर्पास्यदारुभिः ।
न कुर्यादग्निधमनं न कुर्याद्व्यजनादिना" इति ।

 संग्रहे--

"पर्णेन धमने व्याधिः शूर्पेण धननाशनम् ।
पाणिना मृत्युमाप्नोति दारुणा कान्तिनाशनम् ।
वस्त्रेण स्त्रीविनाशः स्यादास्येनाऽऽयुष्क्षयो भवेत्" इति ।

 यत्तु "मुखेन धमनक्रिया" इति मुखधमनस्य कलिवर्जनं तत्साक्षान्मुखधमनस्यैव, न तु-- "धमनीमन्तरा कृत्वा" इत्यनेन विहितस्यापीति द्रष्टव्यम् ।

 प्रतिष्ठापिताग्नेरुपस्थानं ततः कर्तव्यम् । "व्याहृतिभिर्न्युष्योपसमाधायोपतिष्ठतेजुष्टो दमूना अतिथिर्दुरोण इति" इति बौधायनवचनात् ।

 ततोऽग्नेर्ध्यानं कर्तव्यम्--

"होष्यन्नग्नेर्विजानीयात्स्वरूपं श्रुतिचोदितम् ।
अजानता कृतं कर्म तदल्पफलमिष्यते" ।

 इति गोभिलवचनात् । श्रुतिचोदितं चत्वारि शृङ्गेतिश्रुतिचोदितम् । इदं च स्मृतिचोदितस्य सप्तहस्तश्चतुःशृङ्ग इत्यस्योपलक्षणम् ।

 ध्याने विशेषः शारदातिलके--

"वैश्वानरं स्थितं ध्यायेत्समिद्धोमेषु देशिकः ।
शयानमाज्यहोमेषु निषण्णं शेषवस्तुषु" इति ।

 एतच्च तान्त्रिके कर्मणि नियतम् ।।

 ततोऽन्वाधानम्[] । तच्चाऽऽचारात् । प्रयोगवैजयन्त्यामप्येवम् । अत्राऽऽचारादन्वाधानमिति । तच्च स्थूलसमित्रया[]भ्याधानरूपं श्रौते दृष्टत्वात् । तत्र देवतोल्लेखनमपि शिष्टाः कुर्वन्ति, तच्च प्रयोगे वक्ष्यते । यत्त्वत्र यथाऽऽह तदिति परिसमूहनं प्रयोगान्तर उक्तं तत्तुच्छम् । अग्निकार्यप्रकरणोक्तस्य पूर्वत्र प्राप्त्यभावात् ।

 ततः परिस्तरणादि । तदुक्तं गृह्ये--

"प्रागग्रैर्दर्भैरग्निं परिस्तृणात्यपि वोदगग्राः पश्चात्पुरस्ताच्च भवति
दक्षिणानुत्तरान्करोत्युत्तरानधरान्यदि प्रागुदगग्राः" इति ।

 प्रागग्रैर्दर्भैः पुरस्ताद्दक्षिणतः पश्चादुत्तरत इति परिस्तृणाति ह्रस्वा उदगपवर्गाः पश्चात्पुरस्ताच्च भवन्ति । अपि वा पश्चात्पुरस्ताच्च ये दर्भास्त उदगग्रा


  1. क. र्ज्यानाह ।
  2. क. म् । एत ।
  3. ङ. याज्यभ्या ।