पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६५२

पुटमेतत् सुपुष्टितम्
६४४
भट्टगोपीनाथदीक्षितविरचिता-- [पार्वणस्थालीपाकः]
( आग्रयणम् )
 

 एतेषां काला वैखानसापस्तम्बभरद्वाजैरुक्ताः--

"शरदि व्रीहिभिर्वसन्ते यवैर्वर्षासु श्यामाकैः" इति ।

 तत्र यवाग्रयणं कृताकृतम् । तदुक्तं वैजयन्त्यां बा[]ह्वृच्ये-- 'यवाग्रयणं कृताकृतम्' इति । एतच्च नवान्नाशनाधिकारार्थम् ।

 तथा च सूत्रम्--

"आग्रयणेष्टिं व्याख्यास्यामस्तया नानिष्ट्वा नवाना-
मोषधीनां फलान्यश्नाति ग्राम्याणामारण्यानां च" इति ।

 तयाऽऽग्रयणेष्ट्याऽनिष्ट्वा नवानां ग्राम्याणामारण्यानां चौषधीनां फलानि नाश्नातीत्यर्थः ।

 एतत्सर्वं मण्डनेन स्पष्टमुक्तम्--

"श्यामाकान्वैणवान्व्रीहीन्यवान्वाऽऽग्रयणात्पुरा ।
न भुञ्जीतेति विस्पष्टं यज्ञपार्श्वे निरूपितम् ॥
कोशीधान्यानि शाकानि वृक्षादीनां फलानि च ।
अनिष्ट्वाऽऽग्रयणेनापि काममेतानि भक्षयेत् ॥
कोशीधान्येषु वा किंचिदभोज्यमवगम्यते ।
भरद्वाजादिसिद्धान्तान्मुद्गमाषतिलान्यपि ॥
नवेषु च नवान्नानि नाद्यादाग्रयणात्पुरा ।
व्रीहिश्यामाकनीवारान्यवान्वेणुयवानपि ।
शालीन्मुद्गांश्च गोधूमान्कङ्गूनिति विवर्जयेत् ।
अन्यानि कामममश्नीयादिति गर्गेण भाषितम् ॥
हरिमन्थकलायानां फलं नाश्नन्ति केचन।
यानि चान्यानि भक्ष्याणि प्रोक्तानि समनन्तरम् ॥
तान्यप्यपक्वावस्थायामश्नीया[]त्कामतः सुधीः ।
अपक्वधान्यमात्रोपलक्षणं हरिता यवाः" इति ॥

 संकर्षकाण्डस्य भाष्यकारेण वर्णितम्--

"धान्यान्तरं यवप्रख्यं भारद्वाजीयभाष्यकृत् ।
अब्रवीद्धरितयवं न पुनर्हीतरं यवम् ॥
तेन तद्वर्जमन्यानि फलान्यपि न भक्षयेत्" इति ।



  1. ग. ङ. च. बह्वृच्ये ।
  2. ख. ग. ङ. च. यात्कर्मतः ।