पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६५३

पुटमेतत् सुपुष्टितम्
[पार्वणस्थालीपाकः]
६४५
संस्काररत्नमाला
( आग्रयणम् )
 

 हरितमन्थाश्चणकाः । कलायाः सतीनाः । एतासामोषधीनां फलं चणककलायरूपं केचनाऽऽचार्या नाश्नन्तीत्यर्थः । आग्रयणात्पूर्वं नवान्नाशननिषेध उभयोः समः ।

 तथा च मण्डनः--

"नवाशननिषेधोऽयं दंपत्योरुभयोः समः" इति ।

 नवस्वरूपमप्युक्तं तेनैव--

"नवस्यावध्यपेक्षत्वादधुनाऽवधिरुच्यते ।
कियद्दूरे पुराणत्वं नवत्वं कियदन्तिके ॥
सस्यानामवधिर्ज्ये(र्ज्यै)ष्ठी पौर्णमासी प्रसिद्धितः ।
आश्विनी पौर्णमासी तु भवेदत्रोत्तरावधिः ॥
तादृश्योरुभयोः पौर्णमास्योर्मध्ये यदुद्भवेत् ।
धान्यं तन्नवमित्याहुस्तकालाग्रयणं प्रति ॥
तदेव च पुराणं स्यादूर्ध्वं स्वाग्रयणेष्टितः[१]
यथाऽऽग्रयणशास्त्रेषु नवत्वं तदपेक्षणे ॥
ये कालास्तस्य बुद्धिस्थाः स्वान्योन्यावधयो मताः ।
प्रावृट्कालात्परं पक्वं शरद्याग्रयणेन च ॥
ऊर्ध्वं वसन्तान्निष्पन्नं प्रावृडाग्रयणेन च ।
यस्मिन्नाग्रयणं कुर्यादृतौ तदृतुसंभवम् ॥
धान्यं तन्नवमित्याहुरधः पक्वं पुरातनम्" इति ।

 इदं चार्धाधानिन आहिताग्नेरपि न भवति । श्रौतेनैव सिद्धेः ।

मण्डनोऽपि--

"इति ब्रुवद्भिः संकर्षकाण्डिभिर्न्यायसाम्यतः ।
अर्थादिदमपि प्रोक्तमर्धाधाने कृते सति ।
श्रोताग्रयणमेवास्य न स्मार्ताग्रयणं भवेत्" इति ।

 स्वस्य करणाशक्तौ कृताग्रयणेन ऋत्विजा कारणीयः ।

 तदाह मण्डनः--

"अकृताग्रयणो नास्य ऋत्विगाग्रयणे भवेत् ।
अग्निमानिति शङ्खेन धर्मशास्त्रे निरूपितम्" इति ।



  1. च.तः । तथा ।