नयवमयश्चरुः । एतमु त्यं मधुना संयुतं यवम्' इति 'भद्रान्नः श्रेयः' इत्यस्य स्थाने मन्त्र इति विशेषः । अन्यत्समानम् ।
एतमु त्यमित्यस्य मन्त्रस्य विश्वे देवा यवान्नं जगती । नूतनयवान्नप्राशने विनियोग इति ऋष्यादिकं ज्ञेयम् । एतच्च यवाग्रयणं कृताकृतम् ।
अथ श्यामाकाग्रयणम् ।
श्यामाकाग्रयणस्थालीपाकं करिष्य इति संकल्पवाक्यम् । नूतनश्यामाकमयश्चरुः । सोमो देवता । स्विष्टकृद्द्वितीयम् ।
अग्निः प्रथमः प्राश्नात्वित्यस्य मन्त्रस्य विश्वे देवाः श्यामाकान्नमनुष्टुप् । नूतनश्यामाकान्नाशने वियोगः । 'ॐ अग्निः प्रथमः प्रा० चर्षणिः' इति नूतनश्यामाकान्नाशनमन्त्र इति विशेषः । समानमन्यत् ।
अथवा श्यामाकाग्रयणसिद्ध्यर्थं पार्वणस्थालीपाके वा श्यामाकतृणमयं बर्हिः कर्तव्यम् । अथवा नूतनश्यामाकान्गवे दत्त्वा तस्याः क्षीरेण सायंप्रातरौपासनहोमौ होतव्यौ । तेनैव तत्सिद्धिः । व्रीह्याग्रयणस्थालीपाककरणाशक्तौ नवैर्व्रीहिभिरेव पार्वणस्थालीपाकौ कार्यौ । अथवा नवान्व्रीहीन्गवे दत्त्वा तस्याः क्षीरेण सायंप्रातरौपासनहोमौ होतव्यौ ।
अनुकल्पान्तरमप्याह मण्डनः--
"गृह्ये बौधायनेनोक्तं नवेष्टिश्चेन्न संभवेत् । |
इदं च सूत्रोक्तानुकल्पासंभवे ज्ञेयम् । इदं चाऽऽग्रयणं मलमासास्तादिषु न भवति । शुद्धकालस्य संभवात् । पुरातनधान्याभावे त्वत्रापि भवति । यदि दैवान्मानुषाद्वा प्रतिबन्धाच्छरत्काल आग्रयणं न जायेत तदा हेमन्ते शिशिरे वाऽतीतमाग्रयणं कुर्यात् ।
इत्याग्रयणस्थालीपाकः ।
अथ गर्भाधानम् ।
तत्राऽऽदौ प्रथमरजोदर्शने मासपक्षादीनां फलमुच्यते ।
तत्र मासफलं विधानमालायां वाराहे--
"आद्यर्तौ विधवा नारी चैत्रमासे भवेद्ध्रुवम् । |