आषाढे त्वनपत्या स्याच्छ्रावणे धनिनी भवेत् । |
पक्षफलं स्मृतिचन्द्रिकायाम्--
"शुक्लपक्षे सुशीला स्यात्कृष्णे सा कुलटा भवेत् । |
तिथिफलमपि तत्रैव--
"वैधव्यदा हि प्रतिपद्द्वितीया पुत्रवर्धिनी । |
ज्योतिर्ग्रन्थान्तरे तु--
"आद्यर्तौ सुभगा नारी प्रतिपत्सु रजस्वला" इति । तथा-- "सप्तमी धनवर्धिनी" इति । तथा--"अष्टम्यां राक्षसी नारी" इति । तथा--"एकादश्यां सु[१]खान्विता । द्वादश्यां दुर्भगा नारी" इति । तथा--"पौर्णमास्यां सुपुत्रिणी" इति प्रतिपदादिद्वादश्यन्ततिथिषु विपरीतफलमुक्तम् ।
अत्र प्रतिपत्पूर्णिमासमीपस्थैव ग्राह्या । "वैधव्यदा हि प्रतिपत्" इत्यत्र त्वमासमीपस्था प्रतिपद्ग्राह्या । तस्याश्चन्द्रक्षयाविशेषेणामातुल्यत्वात् । सप्तमीनिषेधे कृष्णा ग्राह्या । एवमष्टम्येकादशीद्वादशीष्वपि ज्ञेयम् । पौर्णमासीनिषेधस्तु पौर्णमासीपूर्वार्धपरः[२] । तस्य भद्रारूपत्वात् । विधिस्त्वितरांश इति ज्ञेयम् ।