पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६६०

पुटमेतत् सुपुष्टितम्
६५२
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( योगफलम् )
 

 करादिपञ्चकं हस्तचित्रास्वातीविशाखानूराधानक्षत्राणि । उत्त[१]रशब्देनोत्तरात्रयम् । ईश आर्द्रा । ऐन्द्रं ज्येष्ठा । अनलः कृ[२]त्तिका ।

 ग्रन्थान्तरे विशेषः--

"आद्यंशे दस्रमघामूलानां सर्पशक्रपौष्णानाम् ।
चरमे यदि पुष्पवती कुलटा वन्ध्या मृतप्रजा भवति" इति ।

 दस्रावश्विनी । सर्प आश्लेषाः । शक्रो ज्येष्ठा । पोष्णं रेवती । अत्र केषुचिन्नक्षत्रेषु परस्परं फलविरोधोऽस्ति स शुक्लकृष्णपक्षान्तर्गतत्वेन व्यवस्थापनीयः । शुभं फलं शुक्लपक्षान्तर्गतनक्षत्रविषयं, निषिद्धं फलं कृष्णपक्षान्तर्गतनक्षत्रविषयम् । इति नक्षत्रफलम् ।

अथ योगफलम् ।

 ज्योतिर्निबन्धे वसिष्ठः--

"आद्यर्तौ दुर्भगा नारी विष्कम्भे चेद्रजस्वला ।
वन्ध्या स्यादतिगण्डे च शूले शूलवती भवेत् ।
गण्डे तु पुंश्चली नारी व्याघाते चाऽऽत्मघातिनी ।
वज्रे च स्वैरिणी प्रोक्ता पाते च पतिघातिनी ।
परिघे मृतवन्ध्या च वैधृतौ पतिमारिणी ।
शेषाः शुभावहा योगा यथानामफलप्रदाः" इति ।

 ग्रन्थान्तरे विशेषः--

"अमासंक्रान्तिविष्ट्यादौ व्यतीपाते च वैधृतौ ।
परिघस्य तु पूर्वार्धे षट्षड्गण्डातिगण्डयोः ।
व्याघाते नव शूले च नाड्यः पञ्चर्तुदर्शने" इति ।

 वर्जनीया इति शेषः ।

 एतेषां फलानि तत्रैव--

"वैधव्यमर्थहानिं च सुतनाशं महद्भयम् ।
वैधव्यं शत्रुवृद्धिं च दारिद्र्यं क्षीणजीवनम् ।
तेजोहानिं दुर्भगत्वमेषु पुष्पवती क्रमात्" इति ।

इति योगफलम् ।



  1. क. ङ. त्तराश ।
  2. ङ. च. कृत्तिकाः ।