पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६६२

पुटमेतत् सुपुष्टितम्
६५४
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( ग्रहवेलाग्रहणद्रष्टॄणां फलानि )
 

अथर्तुदर्शनलग्ने सप्तमस्थानस्थितग्रहाणां फलानि ।

नारसिंहीये--

"लग्नस्य सप्तमस्थाने सूर्यो वैधव्यकारकः ।
चन्द्रः सत्पुत्रदो ज्ञेयः सौभाग्यं च लभेद्ध्रुवम् ॥
पुत्रहानिकरो भौमो बुधः सत्पुत्रदो भवेत् ।
बृहस्पतिर्धनायुष्यं शुक्रः सापत्नकारकः ॥
शनैश्चरे तु वन्ध्या स्याद्राहौ तु मरणं ध्रुवम्" इति ।

इत्यृतुदर्शनलग्ने सप्तमस्थानस्थितग्रहाणां फलानि ।

अथ वेलाफलम् ।

 तत्रैव--

"प्रातकाले रजः स्त्रीणां प्रथमं शोकवर्धनम् ।
संगवे सुखसंतत्यै मध्याह्ने धनसंतती ।
अपराह्णे धनावाप्तिः सायाह्ने मध्यमं फलम् ।
पूर्वरात्रे सुखायालं मध्यरात्रे धनक्षयः ॥
पररात्रेऽर्थनाशश्च प्रथमर्तौ फलं स्मृतम् ।
महद्भयं संध्ययोः स्यादर्थहानिस्तथैव च" इति ॥

अन्यत्र तु--

"लाभं चैव तु पूर्वाह्णे मध्याह्ने मध्यमं फलम् ।
अपराह्णे तु वैधव्यं पूर्वरात्रे शुभं भवेत् ॥
मध्यरात्रे मध्यमं स्यात्पररात्रे शुभान्यकम्" इत्युक्तम् ॥

 शुभान्यकमशुभम्[१] । इति वेलाफलम् ।

अथ ग्रहणफलम् ।

 भार्गवः--

"प्रसूतिर्यदि जायेत ग्रहणे चन्द्रसूर्ययोः ।
संक्रान्तौ च तदा स्त्रीणामादौ च ऋतुदर्शने ।
इत्थं संजायते यस्तु तस्य मृत्युर्न संशयः ।
व्याधिः पीडा च दारिद्र्यं शोकश्च कलहो भवेत्" इति ॥

 यस्य प्रसूतिस्तस्य यस्य स्त्रिया ऋतुदर्शनं तस्य चेत्यर्थः । एतन्निमित्तकशान्तिस्तु शान्तिरत्नमालायां वक्ष्यते । इति ग्रहणफलम् ।

अथ द्रष्टृफलम् ।

"पुरंध्र्या दृश्यते यत्तु रजः स्त्रीणां सुखाय तत् ।
विशस्तया तु यद्दृष्टं रजो वैधव्यदं स्मृतम् ॥



  1. ग. ङ. च. म् । अत्रापि शुक्लपक्षकृष्णपक्षपरत्वेन व्यवस्था द्रष्टव्या । इ ।