पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६६४

पुटमेतत् सुपुष्टितम्
६५६
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( उत्पातरजोबिन्दुकार्यकरणसमयस्थानानां फलानि )
 

 रक्ते लोहिते रक्ते रक्तवर्णे सतीत्यर्थः[१] । इति रजःफलम् ।

अथोत्पातफलम् ।

"संध्यासूपप्लवे विष्ट्यामशुभं प्रथमार्तवम्" इति ।

इत्युत्पातफलम्[२]

अथ बिन्दुसंख्याफलम् ।

"प्राप्नोति बिन्दुनैकेन सौभाग्यं तु रजोवती ।
द्विबिन्दुना भवेद्भोगो भवेद्रोगस्त्रिबिन्दुभिः ॥
दारिद्र्यमधिकेषु स्याद्रजस्येतत्तु लक्षणम्" इति ।

इति बिन्दुफलम् ।

अथ कार्यकरणसमयफलम् ।

देवरातः--

"संमार्जनीकाष्ठतृणाग्निशूर्पान्हस्ते दधाना कुलटा तदा स्यात् ।
तल्पोपभोगे तपसि स्थिता चेद्दृष्टं रजो भाग्यवती तदा स्यात्" इति ।

 ग्रन्थान्तरे--

"शुष्ककाष्ठतुषैः शूर्पमार्जन्याद्यशुभैर्यु[३]तम् ।
देशे शुभे य[४]था दृष्टे तथा स्यात्प्रथमार्तवे ॥
भुक्तौ तल्पे च याने च तपनीये च धार्मिके ।
शुभोपकरणैर्युक्ते शुभैर्लग्नग्रहैर्युते ॥
शुभं स्यादनुकूलर्क्षे राशौ स्यात्खगसंयुता" इति ॥

इति कार्यकरणसमयफलम् ।

अथ स्थानफलम् ।

 ज्योतिर्निबन्धे--

"गृहमध्ये सुखावाप्तिर्गृहद्वारे वियोगता ।
शय्योत्था सुखदा भूयाद्धनं चापत्यसंततिः ॥
पितुगृहे रजो दैन्यं विदधाति पितुः कुले ।
देवस्थाने पितुः स्थाने निन्द्यस्थानेऽन्यवेश्मनि ॥
मार्गे भर्तृवियोगं च ब[५]न्द्यागारे मृतप्रजा" इति ।

 देवस्थानं देवालयम्(यः)। पितृस्थानं श्मशानम् । निन्द्यस्थानं कुत्सितस्थानम् । अन्यवेश्म भर्तृगृहादन्यद्गृहम् । इति स्थानफलम् ।



  1. क. ख. ग. र्थः । अ ।
  2. क. ख. ग. म् । इति परिहितवस्त्रादिफलम् । अ ।
  3. क. ग. र्यताम् ।
  4. ङ. यदा ।
  5. ङ. बन्धागारे ।