पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६६६

पुटमेतत् सुपुष्टितम्
६५८
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( सर्वर्तुसाधारणा नियमाः )
 

आर्तवे प्रलिखेद्भूमिमल्पायुर्जायते खलः ।
नेत्रयोरञ्जनं कुर्यात्काणो वाऽन्धः प्रजायते ॥
दन्तानां धावनं कुर्याज्जायते श्यावदन्तकः ।
नखानां कृन्तनं कुर्यात्कुनखी जायते सुतः[]
रज्ज्वादिकच्छेदनं चेत्कुर्यात्क्लीबः प्रजायते ।
तन्तुभिः सृजते रज्जुमुद्बन्धनमृतो भवेत् ॥
ऋतौ पात्रेऽन्नमश्नीयादुन्मादी जायते सुतः ।
खर्वे शरावे भुञ्जीत वामनोऽसौ प्रजायते" इति ॥
"ऋतौ पात्रेऽपः साऽश्नीयादुन्मादी जायते सुतः ।
खर्वपात्रेऽपः साऽश्नीयाद्वामनोऽसौ प्रजायते"

 इत्यपि क्वचित्पाठः । अयमेव पाठः श्रुत्यनुगुणत्वाद्युक्तः ।

 एतस्माद्ब्राह्मणवाक्यात्सौभाग्यवत्या रजस्वलाया एव स्नानप्रलेखनदन्तधावननखनिकृन्तनतृणादिच्छेदनरज्जुसर्गपर्णसाधनकपानखर्वपात्रसाधनकपानरूपा धर्मा निषिद्धाः । न विधवाया रजस्वलायास्तत्र प्रजोत्पत्तेरेवाभावेन प्रजागतदोषाणामसंभवात् ।

 अभ्यङ्गादिकं तु विधवात्वेनैव निषिद्धमिति यद्यपि प्राप्तं तथाऽपि--

"विधवाया रजोवत्या अपि स्नानादयो नहि"

 इति स्मृतिदर्पणस्थगालववचनात्तस्या अपि स्नानादयो धर्मा निषिद्धा एवेति ज्ञेयम् । आदिशब्देन प्रलेखनादि ।

 भोजनकुतूहले भावप्रकाशे--

"आर्तवस्रावदिवसाद्भवेत्सा ब्रह्मचारिणी ।
शयीत दर्भशय्यायां पश्येदपि पतिं न च ।
करे शरावे पर्ण वा हविष्यं त्र्यहमाचरेत् ।
अश्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम् ।
नेत्रयोरञ्जनं स्नानं दिवास्वापं प्रधावनम् ।
अत्युच्चशब्दश्रवणं हसनं बहुभाषणम् ।
आयासं भूमिखननं प्र[]वासं च विवर्जयेत्" इति । )



  1. ख. ङ. च. तः । ऋतौ रज्ज्वादिकच्छेदं कुर्य ।
  2. क. ग. प्रहासं ।