वसिष्ठोऽपि--
- "त्रिरात्रं रजस्वलाऽशुचिर्भवति सा नाञ्ज्यान्नाभ्यञ्ज्यान्नाप्सु स्नायादधः
- शयीत न दिवा स्वप्यान्नाग्निं स्पृशेन्न रज्जुं सृजेन्न दन्तान्धावयेन्न मांस-
- मश्नीयान्न ग्रहान्निरीक्षेत न हसेन्नाश्लीलं किंचिदाचरेदखर्वेण पिबे-
- दञ्जलिना वा पिबेल्लौहेनाऽऽयसेन वा विज्ञायते" इति ।
- "त्रिरात्रं रजस्वलाऽशुचिर्भवति सा नाञ्ज्यान्नाभ्यञ्ज्यान्नाप्सु स्नायादधः
अशुचिरिति पदच्छेदः । नाप्सु स्नायात् । नैमित्तिके स्नाने प्राप्ते निमज्जनरूपं स्नानं नैव कुर्यात् ।
अत एव पराशरः--
"स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला । |
इत्युद्धृतोदकेन स्नानमाह । अखर्वेण महतेत्यर्थः । लौहेन ताम्रेण ।
दक्षः--
"अञ्जनाभ्यञ्जने स्नानं प्रवासं दन्तधावनम् । |
([१] अत्र नित्यस्नानं निपिध्यते । )
गर्गः--
"आहारं गोरसानां च पुष्पालंकारधारणम् । |
कङ्कतं केशप्रसाधनम् । पीठं च शय्या च पीठशय्ये तयोरधिरोहणमिति विग्रहः । अत्र पीठशय्ययोर्ग्रहणात्सोपानारोहणे निषेधो न । सा रजस्वला ।
स्मृत्यन्तरे--
"भूमौ कार्ष्णायसे पाणौ शरावे दग्ध एव वा । |
अत्रिः--
"वर्जयेन्मधु मांसं च पात्रे खर्वे च भोजनम् । |
अखर्वमह्रस्वं पात्रम् । आस्यशोधनं मुखशोधनम् ।
"गन्धमाल्यं दिवास्वापं ताम्बूलं कांस्य[२]भाजनम्" । |