पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६६८

पुटमेतत् सुपुष्टितम्
६६०
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( रजस्वलाविशेषधर्मप्रयोगः )
 

 इति देवरातवचनपाठः । कांस्य[१]भाजननिषेधेन सौवर्णराजताद्यभ्यनुज्ञा गम्यते ।

विश्वप्रकाशे--

"दिवास्वापमलंकारं क्रीडां शिल्पक्रियां तथा ।
गृहकर्म च ताम्बूलमध्वानं रात्रिभोजनम् ।
ज्योतिषां दर्शनं स्पर्शं परपुंसां च दर्शनम् ।
हसनं जल्पनं चैव वर्जयेच्च रजस्वला" इति ।

 जल्पनं बहुभाषणम् ।

अथ प्रयोगपारिजातकृतरजस्वलाविशेषधर्म-
प्रयोगः प्रदर्श्यते ।

 तैलाभ्यङ्गं दन्तधावनं नखकृन्तनं नेत्राञ्जनं तन्तुना रज्ज्वादिकरणं तच्छेदनं तालवृन्तादिबन्धनं मुक्ताफलरत्नानां मालाकरणं भुवि लेखनमल्पशरावपर्णपात्रभोजनं मधुघृतक्षारदधिचन्दनं(भक्षणं) गन्धपुष्पभूषणं(ण)धौतवस्त्रधारणं ताम्बूलसेवनं ग्रहेक्षणं दिवास्वापं चाकुर्वती शौचादिशोधनं स्नानमग्निस्पर्शनमन्यरजस्वलाशूद्रान्त्यजश्वकुक्कुटादिस्पर्शनं चाकुर्वती कांस्यपात्रे विशालमृन्मयपात्रे वा क्षीरदधिघृतवर्जितमन्नं भुञ्जाना गमनागमनकाले पादुके उपानहौ वा धृत्वाऽगच्छन्ती लौहेनाऽऽयसेन पात्रेणाञ्जलिना वा जलं पिबन्ती स्नानदिवसे षष्टिमृत्तिकाभिः शौचं दन्तधावनपूर्वकं संगवे स्नानं कृत्वा पतिमुखमिष्टदेवतां वाऽवलोकयेत्, इति ।

 अल्पशब्दस्य शरावपर्णशब्दयोरन्वयः । तेनाल्पपर्णस्य निषेधो न तु महतः कदल्यादिपर्णस्येति ।

 प्रथमर्तौ विशेषः प्रयोगपारिजाते स्मृतिचन्द्रिकायाम्--

"उद्वाहिताङ्गनायाश्च प्रथमे त्वार्तवे ततः ।
अक्षतैरासनं कृत्वा तस्मिंस्तामुपवेशयेत् ॥
हरिद्रागन्धपुष्पादीन्दद्युस्ताम्बूलकं स्रजम् ।
आशिषो वाचयेयुस्ताः पतिपुत्रवती भव ॥
दीपैर्नीराजनं कुर्यात्सदीपे वासयेद्गृहे ।
अपूपाल्लँवणं मु[२]द्गगुडमिश्रं तथा हविः ॥
दद्याद्ब्राह्मणपुत्रीभ्यस्ताभ्यो दद्यात्तु भोजनम्" इति ।



  1. क. स्यभोज ।
  2. ग. ड. च. मुद्गान्गुड ।