पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६७

पुटमेतत् सुपुष्टितम्
[इध्मकाष्ठसंख्या]
६३
संस्काररत्नमाला ।
(परिधिबन्धनम्)
 

 इध्मकाष्ठसंख्या तत्संनहनं च गृह्ये--

 "एकविं शतिदारुमिध्म संनह्यत्याहुतिपरिमाणं वा तस्मिञ्च्छम्याः परिधीनिध्ममुपसंनह्यति" इति ।

 एकविंशतिदारुमेकविंशतिकाष्ठमिध्मं संनह्यति संनह्य प्रयुनक्तीत्यर्थः । अथवा यथाश्रुत एवार्थः । अस्मिन्कल्पे दर्व्यादनात्प्राक्संनहनमात्रं कार्यम् । आसादनं तु येन चार्थ इतिवचनेनोपवेषासादनोत्तरमेव, श्रौते दृष्टत्वात् । संनहनोत्तरमनधोनिधानमपि कार्यम् । बर्हिषोऽपीध्मात्पूर्वं संनहनं श्रौते दर्शनात् । इध्मेन सह बर्हिषोऽप्यासादनम् । न च प्रोक्षणीपात्रासादनानन्तरमेवेध्माबर्हिषोरासादनमस्त्विति वाच्यम् । स्वसत्तयोपयोगिनां पदार्थानामासादनानन्तरमेव स्वलोपेनोपयोगिनां पदार्थानामासादनस्योचितत्वात् ।

 त्रिविधा[१] ह्युपयोगिनः पदार्थाः । केचन स्वसत्तया, स्वान्यथाभावेन केचन, स्वलोपेन केचन । तत्र दर्व्याज्यस्थालीप्रणीताप्रणयनप्रोक्षणीपात्रोपवेषाः[२] स्वसत्तया होमोपयोगिनः । अश्माहतवस्त्रद्वयोत्तरीयार्थाजिनमौञ्जीमेखलादण्डकौपीनतद्बन्धनार्थसूत्रोपवीतभिक्षापात्रकूर्चाः[३] स्वसत्तया उपनयनोपयोगिनः । स्वान्यथाभावे[४]नोपयोगिनो व्रीहयः स्थालीपाके । स्वलोपेन साधारणहोमोपयोगिनः संमार्गदर्भबर्हिरिध्मावज्वलनदर्भाज्यात्मकाः । सप्त पलाशसमिधः[५] स्वलोपेनोपयोगिन इति । एवं तत्र तत्र ज्ञेयम् । स्वसत्ता स्वस्य पात्रादेः सत्ताऽविकारिस्वरूपम् । स्वान्यथाभावः स्वस्य व्रीह्यादेरन्यथाभावस्तण्डुलौदनादिरूपः । स्वलोपः स्वस्य समिदादेर्लोपो नाशः । एवंप्रकारैर्यज्ञसाधनपदार्था[६]स्त्रिविधा भवन्ति ।

 यथाऽऽहुर्भट्टाचार्याः--

"स्वान्यथाभावमत्ताभ्यां स्वलोपेन च साधकाः ।
त्रिविधाः संप्रयुज्यन्ते कर्मणा विनियोजकाः" इति ॥

 आहुतीनां परिमाणं संख्या । आहुतिपरिमाणमिव परिमाणं यस्य स


  1. ख. धा हि विनियोजका: प ।
  2. क. वेषा होमोपयोगिनः स्वसत्तया । अ । ख. वेषा होमोपयोगिनः स्वसत्तया विनियोजकाः । अ ।
  3. क. कूर्चा उपनयनोपयोगिनः स्वसत्तया । स्वा । ख. कूर्चा उपनयनोपयोगिनः स्वसत्तया विनियोजकाः । स्वा ।
  4. क. वेन व्री । ख. वेन विनियोजका व्री ।
  5. क. मिध उपनयनोपयोगिनः स्वलोपेनेति । ख. मिध उपनयनोपयोगिनः स्वलोपेन विनियोजका इति ।
  6. ग. घ. ढ. स्त्रिधा ।