पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६७१

पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६६३
संस्काररत्नमाला
( रजोदर्शनमध्ये पारणाप्राप्तौ विचारः )
 

चतुर्थेऽहनि संप्राप्ते स्पृशेदन्या तु तां स्त्रियम् ।
सा सचैलाऽवगाह्यापः स्नात्वा स्नात्वा पुनः स्पृशेत् ॥
दशद्वादशकृत्वो वा ह्याच(चा)मेच्च पुनः पुनः ।
अन्ते च वाससां त्यागस्ततः शुद्धा भवेत्तु सा ॥
दद्याच्छक्त्या ततो दानं पुण्याहेन विशुध्यति ।
आतुराणां च सर्वेषामेवं शुद्धिर्विधीयते" इति ॥

इति स्नानविधिः ।

अथ प्रसङ्गाद्रजोदर्शनमध्ये पारणाप्राप्तौ विचारः ।

 तत्र ऋष्यशृङ्गः--

"संप्रवृत्तेऽपि रजसि न त्याज्यं द्वादशीव्रतम्" इति ।

 द्वादशीव्रतमित्युपलक्षणम् ।

"प्रारब्धदीर्घतपसां नारीणां यद्रजो भवेत् ।
न तत्रापि व्रतस्य स्यादुपरोधः कदाचन" इति सत्यव्रतोक्तेः ।

 सत्यव्रतवचनस्यायमर्थः--नवरात्रमासोपवासादिदीर्घकालसाध्यकाम्यव्रतवती नारी मध्ये रजः पश्यति तदोपवासादि कुर्यादेव तद्दिनसाध्यपूजादिकं तु पञ्चमेऽहनि कुर्यात् ।

"पञ्चमेऽहनि शुद्धा स्याद्दैवे पित्र्ये च कर्मणि"

 इति वचनादतिक्रान्तपूजादानादि पञ्चमेऽहनि कुर्यादिति माधवोक्तेः ।

 हेमाद्रिस्तु--

"गर्भिणी सूतकी चैव कुमारी वाऽथ रोहिणी ।
यदाऽशुद्धा तदाऽन्येन कारयेत्प्रयता सती"

 इति पाद्ममेवं व्याचख्यौ-- लिङ्गस्याविवक्षितत्वात्पुमान्वा स्त्री वाऽशुद्धावुपवासपूजादियुक्ते व्रते स्वयमुपोष्य पूजाद्यन्येन कारयेदिति । तिथ्यादिनियतकालशेषविहितेष्वेवम् । अन्येषु तु कोकिलादिव्रतेषु पञ्चमेऽहनीत्यादि । किंचैकादश्यादौ पञ्च[१]षाशौचपाते मासान्ते पारणापत्तिर्मासोपवासान्ते पञ्च[२]षाशौचपाते जीवनासंभवश्च ।

 यत्तु--

"नियमस्था यदा नारी प्रपश्येदन्तरा रजः ।
उपोष्य चतुरो(तस्रो) रात्रीः स्नात्वा शेषं चरेद्व्रतम्"



  1. क. ञ्चधाशौ ।
  2. क. ञ्चधाशौ ।