पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६७३

पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६६५
संस्काररत्नमाला

पित्तादिदोषवैषम्यादसकृद्यत्प्रवर्तते ।
तद्रोगजं समुद्दिष्टमथ द्रव्यजमुच्यते ॥
भवेद्यद्धातुवैषम्यहेतुद्रव्योपभोगजम् ।
तद्द्रव्यजं समुद्दिष्टमथ कालजमुच्यते ॥
आरभ्य चाऽऽर्तवदिनादेकविंशतिवासरे ।
मासादूर्ध्वं रजो यत्स्यात्तत्कालजमुदाहृतम् ॥
रजस्वला यदा नारी पुनरेव रजस्वला ।
सा विंशतिदिनादूर्ध्वं त्रिरात्रमशुचिर्भवेत्" इति ॥

 स्मृत्यर्थसारे विशेषः--

 "सप्तदशदिनमध्ये पुना रजोदर्शने स्नानमात्रम् । अष्टादश एकरात्रम् । ऊनविंशे द्व्यहं, विंशतिप्रभृति त्रिरात्रम्" इति ।

 एतच्च यस्या विंशतिदिनोत्तरमेव प्रायशो रजोदर्शनं तद्विषयम् ।

 कश्यपः--

"रजस्वला यदा नारी पुनरेव रजस्वला ।
अष्टादशाहात्प्राग्वाऽपि अशुचिः स्यात्रिरात्रकम् ॥
एकादशे त्वहोरात्रं द्विरात्रं द्वादशेऽहनि ।
ऊर्ध्वं त्रिरात्रं विज्ञेयमिति कौण्डिन्यभाषितम्" इति ॥

 एतच्च वचनं यस्या यौवनावस्थाभेदेन षोडशदिनात्प्रागेव प्राचुर्येण रजोदर्शनं तद्विषयम् ।

 स्मृत्यर्थसारेऽपि--

"त्रयोदशदिनादूर्ध्वं प्रायो रजोवतीनामेकादशदिनादर्वागशुचित्वं नास्ति ।
एकादशदिन एकरात्रं, द्वादशे द्विरात्रमूर्ध्वं त्रिरात्रम्" इति ।

 प्रयोगपारिजातेऽप्येवम् । इदमपि षोडशर्तुर्निशाः स्त्रीणामितिवचनात्स्नानदिवसात्परं ज्ञेयम् ।

 रोगजे रजसि नाशुचितेत्याह बृहस्पतिः--

"रोगेण यद्रजः स्त्रीणामन्वहं हि प्रवर्तते ।
नाशुचिः स्यात्ततस्तेन यतो वैकारिकं मतम्" इति ॥

 विकाराज्जातं वैकारिकम् । रोगेणेति वचनं रागजद्रव्यजयोरुपलक्षणम् । अन्वहमिति श्रवणान्मध्ये व्यवधाने यदि प्रायो विंशतिदिनोत्तरमेव सा रजोवती तदा विंशतिप्रभृति त्रिरात्रमूनविंशे द्व्यहम् , अष्टादश एकरात्रं सप्तदशदिनपर्यन्तं


८४