पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६७७

पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६६९
संस्काररत्नमाला
( उदक्यान्योन्यस्पर्शे श्वशूद्रादिस्पर्शने च शुद्धिप्रकारः )
 

 पूर्वा ब्राह्मण्यनन्तरा वैश्या ।

स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रजा तथा ।
कृच्छ्रमेकं चरेत्पूर्वा शूद्रा दानेन शुध्यति, इति[१]

 दानं पादकृच्छ्रसमम् ।

स्पृष्ट्वा रजस्वलाऽन्योन्यं क्षत्त्रिया शूद्रजा तथा ।
उपवासैस्त्रिभिः पूर्वा अहोरात्रेण तूत्तरा ॥

 पूर्वा क्षत्त्रिया । उत्तरा शूद्रा ।

स्पृष्ट्वा रजस्वलाऽन्योन्यं क्षत्त्रिया वैश्यजा तथा ।
त्रिरात्राच्छुध्यते पूर्वा अहोरात्रेण तूत्तरा ॥

 पूर्वा क्षत्त्रियोत्तरा वैश्या ।

"स्पृष्ट्वा रजस्वलाऽन्योन्यं वैश्या शुद्रा तथैव च ।
त्रिरात्राच्छुध्यते पूर्वा अहोरात्रेण तूत्तरा" [इति] ॥

 पूर्वा वैश्या । उत्तरा शूद्रा ।

 एतच्च कामतः स्पर्शे ।

'वर्णानां कामतः स्पर्शे विधिरेष सनातनः' ।

 इति वाक्यशेषात् ।

 पतितचण्डालादिस्पर्शे प्रायश्चित्तमाहतुर्बृहस्पतिवृद्धवसिष्ठौ--

"पतितान्त्यश्वपाकेन संस्पृष्टा चेद्रजस्वला ।
तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ।
प्रथमेऽह्नि त्रिरात्रं स्याद्द्वितीये द्व्यहमेव तु ।
अहोरात्रं तृतीयेऽह्नि चतुर्थे नक्तमेव तु" इति ॥

 तान्यहानि रजस्वलाव्रतवन्ति अहानि व्यतिक्रम्योपवासेनेति शेषः । अत्र सर्वत्र पञ्चगव्यप्राशनमपि कर्तव्यमिति भवदेवः ।

 यत्तु बौधायनवचनं--

"रजस्वला तु संस्पृष्टा चण्डालान्त्यश्ववायसैः ।
तावत्तिष्ठेन्निराहारा यावत्कालेन शुध्यति" ॥

 इति, तदशक्ताया अकामे वा ।



  1. अयमितिशब्दोऽनपेक्षितः ।