पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६८०

पुटमेतत् सुपुष्टितम्
६७२
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( उदक्यान्योन्यस्पर्शे श्वशूद्रादिस्पर्शने च शुद्धिप्रकारः )
 

 अधोच्छिष्ट इत्यत्र संधिरार्षः । अधोच्छिष्टक्षत्रियादिस्पर्शे ब्राह्मण्या अधिकं कल्प्यम् । एवं हीनाया उच्छिष्टोत्तमस्पर्शे न्यूनम् ।

 भोजनकाले रजस्वलान्तरं दृष्ट्वा पुनर्भोजने त्वापस्तम्बः--

"उदक्या यदि वा भुङ्क्ते दृष्ट्वाऽन्यां तु रजस्वलाम् ।
आस्नानकालं नाश्नीयात्पञ्चगव्यं ततः पिबेत्" इति ॥

 एतच्च कामत इति शूलपाणिः ।

 भोजनकाले चण्डालदर्शने त्वत्रिः--

"रजस्वला तु भुञ्जाना चण्डालं यदि पश्यति ।
उपवासत्रयं कुर्यात्प्राजापत्यं तु कामतः" इति ॥

 रजस्वलाया आशौचिस्पर्शे शातातपः-

"आर्तवाभिप्लुता नारी स्पृशेच्चेच्छवसूतकम् ।
ऊर्ध्वं त्रिरात्रात्स्नानात्तां त्रिरात्रमुपवासयेत्" इति ॥

 अत्रिः--

"आर्तवाभिप्लुता नारी मृतसूतकिनं स्पृशेत् ।
अभुक्त्वा च चरेत्कृच्छ्रं भुक्त्वा तु त्र्यहमेव तु" इति ॥

 आशौचिस्पर्शे स्नानात्प्राग्रजोदर्शने मार्कण्डेयः--

"मृतसूतकिसंस्पर्श ऋतुं दृष्ट्वा कथं भवेत् ।
आस्नानकालं नाश्नीयाद्भुक्त्वा चान्द्रायणं चरेत्" इति ॥

 आस्नानकालपर्यन्तं चतुर्थदिनपर्यन्तम् ।

 मदनरत्ने स्मृत्यन्तरे--

"अप्रायत्ये समुत्पन्ने मलवद्वसना यदि ।
अभिषेकेण []मुक्तिः स्याद्दिनत्रयमभोजनम्" इति ॥

 अभिषेकेण मुक्तिः सद्यः स्नानेन भोजनम् । इदमशक्ताया बालापत्याविषयं वा । शक्तायास्तु त्रिरात्रमुपवासः ।

 बन्धुमरणश्रवणादौ व्यासः--

"मलवद्वसनायास्तु अप्रायत्यं भवेद्यदि ।
अभिषेकेण शुद्धिः स्यादभुक्तिश्च दिनत्रयम्" इति ॥

 अत्रापि पूर्ववद्व्यवस्था । दिनत्रयमित्यवशिष्टकालोपलक्षणम् । अप्रायत्यं बन्धुमरणादिना ।



  1. मुक्तिरित्यत्र भुक्तिरित्यपि पाठः सभवेत् ।