पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६८७

पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६७९
संस्काररत्नमाला
( स्त्रीधर्माः )
 

 नन्वेवं श्रवणविधौ श्रावयेच्चतुरो वर्णानित्युक्तेर्द्विजानामपि मन्त्रश्रवणमेव स्यान्न पाठ इति चेत् ।

अत्र ब्रूमः--

"अध्येतव्यं ब्राह्मणेन वैश्येन क्षत्रियेण च ।
निषेकादिश्मशानान्ताः" ॥

 इत्यादिवचनेभ्योऽध्ययनस्यैव कर्माङ्गत्वम् ।

 श्रवणं तु फलविशेषार्थम् ।

"य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किचित्सोऽमुत्रेह च मानवः" ॥

 इत्यादौ चण्डीपाठादौ च फलश्रुतेः ।

"य इदं श्रावयेद्विद्वान्द्विजान्पर्वसु पर्वसु ।
अश्वमेधफलं तस्य तद्भवाननुमन्यताम्" इति याज्ञवल्क्योक्तेश्च ।

 पुराणाध्ययनश्रवणयोर्विधानेऽप्यध्ययनं ज्ञानद्वारा कर्मार्थत्वाद्दृष्टार्थं श्रवणं त्वदृष्टार्थमेव । शूद्राणां तु विपरीतं श्रवणं ज्ञानद्वारा कर्मार्थत्वाद्दृष्टार्थं फलार्थत्वाददृष्टार्थं च ।

 अध्ययनं तु नास्त्येव ।

"श्रोतव्यमेव शूद्रेण नाध्येतव्यं कदाचन" इति वचनात् ।

"सुगतिमियाच्छ्रवणात्तु शूद्रजातिः" इति हरिवंशोक्तेश्च ।

 एतेन पुराणविष्णुसहस्रनामचण्डीस्तोत्रादिपाठेऽधिकारोऽप्यपास्तः ।

 यत्तु सहस्रनामप्रतिपादके स्तोत्रे--

"वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्" ॥

 इति वचनं तदपि श्रवणपरमेव । आहुश्च श्रीमच्छंकराचार्या एतद्व्याख्याने--

'शूद्रः सुखमवाप्नुयात्' इत्यत्र शूद्रः श्रवणेनैवेति ।

 गणपतिसहस्रनामप्रतिपादके स्तोत्रे तु--

"सकृत्पाठेन संसिद्धः स्त्रीशूद्रपतितैरपि ।
सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये" ॥

 इति वचनादधिकारः । एवमन्यत्रापि । किं बहुना शूद्रकर्तृकस्नानदानश्राद्धादौ द्विजस्यैव पौराणमन्त्रपाठः । शूद्रस्य तु श्रवणमात्रम् । स्त्रीणामनुपनीतानां शूद्राणां च स्थापनेऽधिकारो न ।